पृष्ठम्:रामायणमञ्जरी.pdf/२३९

एतत् पृष्ठम् परिष्कृतम् अस्ति
२३०
काव्यमाला।


खे खयं छाययाम्भोधौ लाङ्गूलेन महीयसा ।
ययौ त्रिभिरिवाकारैस्त्रैलोक्ये विश्रुतः कपिः ॥ ५२९ ॥
वेगदीर्घीकृतेनास्य लाङ्गूलेन महीयसा ।
नमः प्रभाभरोद्भासि सीमातीतमिवामवत् ॥ ५३० ।।
पिवन्निव नभः कृत्स्नमालिङ्गन्निव दिग्वधूः ।
वर्त्म क्षिपन्निवातीतं स ययौ विधुताम्बुधिः ॥ ५३१ ॥
त्रिंशद्योजनदीर्घास्य दशयोजनवर्तुला ।
छाया चकार जलधौ संसपिंजलदभ्रमम् ॥ ५३२ ॥
पवनाकुञ्चितप्रान्तशुभ्राभ्रवलयः क्षणम् ।
प्रययौ स्कन्धयोस्तस्य स्फारकेसरमारुतः ॥ ५३३ ।।
ज्ञात्वा सागरवंशस्य दूतं रामस्य सागरः ।
तं गन्तुं चोद्यतं दूरं तद्विश्रान्तिमचिन्तयत् ।। ५३४ ॥
हिरण्यनाभं मैनाकं सुतं गौरीगुरोर्गिरेः ।
स समेत्य जगादाशु सलिलान्तरवर्तिनम् ।। ५३५ ।।
पातालवासिनां रब्धं पिधातुमिह वज्रिणा ।
न्यस्तस्त्वं दैत्यसंघानां कामरूपी बलोचितः ।। ५३६ ॥
हनुमानामकार्यार्थं प्रयात्याशु विहायसा ।
शिखराण्यस्य विश्रान्त्यै त्वं दर्शयितुमर्हसि ॥ ५३७ ॥
इत्यम्बुधिगिरा क्षिप्रं हेमरत्नमयो गिरिः।
उद्ययौ काञ्चनच्छायं यत्प्रभाभिरभून्नभः ॥ ५३८ ॥
तं दृष्ट्वा हेमशिखरं विघ्नं मत्वा कपीश्वरः ।
उरःपवनवेगेन विदधे खर्वशेखरम् ।। ५३९ ।।
तस्यातिमात्रमालोक्य वेगं पुलकितो गिरिः ।
दिव्यदेहस्तमवदद्विन्द्योच्चैर्मुदा मुहुः ॥ ५४० ।।


१. 'प्रतिविम्बेन चान्तरे' शा०, २. 'तले' शा०. ३. 'स ययौ निभिराकारै शा.. ४. 'सीमन्तित शा. ५. 'वारतां' शा०. ६. "न्वितः' शा.