पृष्ठम्:रामायणमञ्जरी.pdf/२४३

एतत् पृष्ठम् परिष्कृतम् अस्ति
२३४
काव्यमाला।


चिन्तानिस्पन्दनेत्रैरिति सुररमणीमण्डलैरीक्ष्यमाणः
सोऽभूदल्पप्रमाणः सपदि रघुपतेर्वाञ्छितावाप्तिसिद्ध्यौ ॥५७३॥
इति सागरलङ्घनम् ॥ १५ ॥

इति क्षेमेन्द्रविरचिते रामायणकथासारे किष्किन्धाकाण्डः समाप्तः ।




अथ सुन्दरकाण्डम् ।


जितं भगवता तेन हरिणा लोकधारिणा ।
अजेन विश्वरूपेण निर्गुणेन गुणात्मना ॥ १ ॥
पौलस्त्यदर्पविपुलं विलङ्घ्य जलधिं कपिः ।
विस्मयानन्दनिस्पन्दां विदधे विवुधावलीम् ॥ २ ॥
तमालतालतालीसहिन्ताललवलीवनैः ।
तगरागुरुपुंनागलवङ्गगहनैर्व्रजन् ॥ ३ ॥
स हेमवप्रजच्छन्नां रत्नाद्युतिदुकूलिनीम् ।
लङ्कामङ्के त्रिकूटस्य ददर्श दयितामिव ॥ ४ ॥
स संक्षिप्य वपुः क्षिप्रं महोत्सवमिवाधनः ।
निपपाताशु लङ्कायां चोत्तरद्वारशेखरे ॥ ५ ॥
ततः क्षपाचरपुरीरत्नमन्दिररश्मिभिः ।
तिरस्कृत इवासक्तं जगामास्तं दिवाकरः ॥ ६॥
अथाययौ तमःस्तोकमयूरच्छदभूषणा ।
तारकामौक्तिकस्मेरा शर्वरी शर्वरीशनैः ॥ ७ ॥
कण्ठेषु नीलकण्ठानां गण्डेषु मददन्तिनाम् ।
तमः प्रगल्भतां लेभे कुन्तलेषु च योषिताम् ॥ ८ ॥
यामिनी कामिनीस्निग्धस्नानधौतकचत्विषि ।
बभार तिमिरस्फारे तारा कुसुमसंक्षयम् ॥ ९ ॥
गवाक्षजातावदनैरिन्द्रनीलगृहेर्मुहुः ।
पीतो गीर्णमिवासक्तं ससर्प विपुलं तमः ॥ १०॥


१. 'च' शा०. २. 'ल' शा०,