पृष्ठम्:रामायणमञ्जरी.pdf/२५

पुटमेतत् सुपुष्टितम्
१६
काव्यमाला।

ततः पूर्णे महायज्ञे राममूचुर्महर्षयः ।
मखोऽयं कौशिकेनाप्तस्त्वत्पराक्रमरक्षितः ।। १८२ ।।
मिथिलाधिपतेर्यज्ञः शतक्रतुसमश्रियः ।
राज्यकल्पद्रुमफलं जनकस्य भविष्यति ॥ १८३॥
चन्द्रचूडधनुस्तत्र दिव्यं सदसि दृश्यते ।
संकल्पेऽपि न धर्त्तु यत्प्रगल्भास्त्रिदशा अपि ॥ १८४ ॥
तदेहि मिथिलां राम गच्छामः क्ष्मापतेर्मखे।
दुर्धर्षे द्रक्ष्यसि धनुस्तत्र त्रिपुरवैरिणः ॥ १८५ ॥
इत्युक्ते मुनिभिः प्रीत्या सहितैस्तैः सलक्ष्मणः ।
विश्वामित्रं पुरस्कृत्य प्रतस्थौ मिथिलां ततः ॥ १८६ ॥
ते व्रजन्तः समासाद्य शोणं शोणांशुमालिनि ।
संध्यायां तत्तटे तस्थुर्जपहोमकृतक्षणाः ॥ १८७ ॥
रामस्तत्र सुखासीनं विश्वामित्रं पुरस्थितः ।
पप्रच्छ देशः कस्यायमिति रम्यतयाहृतः ॥ १८८ ॥
तमब्रवीन्मुनिवरः पुत्रोऽभूद्ब्रह्मणः कुशः ।
कुशनाभः कुशाम्बाख्यमसूर्तरजसं वसुम् ॥ १८९ ॥
स प्राप तनयान्वीरान्भुजस्तम्भितभूमिपान् ।
व्यधात्कुशाम्बः कौशाम्बीं कुशनाभो महोदयम् ॥ १९० ॥
प्राग्ज्योतिषमसूर्ताख्यो वसुश्चक्रे गिरिव्रजम् ।
घृताच्यां सुरसुन्दर्या कन्यानामभवच्छतम् ।। १९१ ।।
कुशनाभस्य राजर्षेर्हरिणीहारिचक्षुषः ।
ता यौवनवसन्तेन भूषिताः स्तबकस्तनैः ॥ १९२ ॥
बभुर्विलासललिता लता इव सविभ्रमाः ।
उद्यानकेलिसंसक्तास्ता विलोक्य समीरणः ॥ १९३ ।।


१. 'मुनेर्यज्ञे' क. २. 'शोभते' क. ३. 'असूर्तरजसो नाम धर्मारण्यं महामतिः'

रामायणे.