पृष्ठम्:रामायणमञ्जरी.pdf/२५३

एतत् पृष्ठम् परिष्कृतम् अस्ति
२४४
'काव्यमाला।


नानारत्नच्छदैर्दिव्यैः सौरभैः सुरपादपैः ।
सपुष्पवाष्पैराकीर्णः कृतातिथ्य इबाबभौ ॥ १२४ ॥
अशोकवनिकां तस्मिन्गाहमाने मनोजवे ।
समुद्भूतैरलिकुलैर्बभूवुः श्यामला दिशः ॥ १२५ ॥
विहङ्गैर्नीलरक्ताङ्गैः कूजद्भिः कनकच्छदैः ।
प्रवालचञ्चुचरणैः स्त्रस्तैर्व्याप्तमभून्नभः ॥ १२६ ॥
प्रवर्धमानबेगस्य तस्य गात्रानिलैर्मुहुः ।
वनिका प्रोषितेवाभूत्यक्तपुष्पविभूषणा ॥ १२७ ॥
लोलालिमालाकबरी सा तरङ्गितमानसा ।
दीक्षेव शुशुभे सस्तकिञ्जल्कपटलांशुका ॥ १२८ ॥
सा लुप्ततिलका स्रस्तचन्दनागुरुपल्लवा ।
बभौ रतान्तक्लान्तेव क्लिष्टबिम्बफलाधरा ॥ १२९ ॥
बभार पुष्पमालां सा छिन्नां वेश्येव रागिणा ।
कपिसिंहेन नखरोल्लेखितस्तबकस्तनी ॥ १३० ॥
तस्यां निष्पत्रकुसुमा न वभुः कपिकम्पिताः ।
पादपाः प्रौढकितवैर्मुग्धा इव पराजिताः ॥ १३१ ॥
तत्र केचिददृश्यन्त तरवो हृतवल्कलाः ।
वेश्याभिर्भुक्तसर्वस्वा विटा इव निरम्बराः ॥ १३२ ॥
विपुलाः पादपाः क्षिप्रं कपिना निष्फलीकृताः ।
बभूवुः शोकजनका दैवेनेव मनोरथाः ॥ १३३ ॥
आयासिता तरुश्रेणी मारुतेर्वेगविप्लवैः ।
अकम्पत प्रजेवोग्रैर्लुण्ठिता राजवल्लभैः ।। १३४ ॥
सरत्रकदलीकुञ्जे कान्ताकल्पलतावने ।
मन्दारोदारवीथीषु केलिकल्लोलिनीतटे ।। १३५ ।।
हेमपङ्कजिनीपुञ्जे क्रीडावैडूर्यपर्वते ।
तत्र तत्र च बभ्राम वैदेहीदर्शनाशया ॥ १३६ ।।
इत्यशोकवनिकाप्रवेशः ॥ ३ ॥