पृष्ठम्:रामायणमञ्जरी.pdf/२५४

एतत् पृष्ठम् परिष्कृतम् अस्ति
२४५
रामायणमञ्जरी।


अथेन्द्रनीलतरुभिर्मुक्ताकुसुमहासिभिः ।
आलिङ्गितमिव प्रौढस्कन्धैर्विटपबाहुभिः ॥ १३७ ॥
मणिस्तम्भसहस्रेण धृतं कनकवेदिकम् ।
कपिर्ददर्श प्रासादं स्वसंकल्पमिवोन्नतम् ।। १३८ ।
तत्र काञ्चनशाखस्य महतः शिंशिपातरोः ।
अपश्यन्मारुतिर्मूले नारीं कमललोचनाम् ॥ १३९ ॥
कनकस्निग्धगौरेण नयनानन्दबन्धुना ।
देहकान्तिवितानेन संदेहितशशिप्रभाम् ॥ १४० ॥
विरहापाण्डुरमुखां चिन्तया तनुतां गताम् ।
रहितां सितपक्षेण सुधाकरकलामिव ।। १४१ ॥
अपरिम्लानचरितां परिम्लानाधराननाम् ।
विच्छिन्नजीवितस्नेहामविच्छिन्नमनोरथाम् ॥ १४२ ॥
आबद्धवेणिकां वक्रपद्मनेत्रोत्पलाशयाम् ।
दीर्घां पश्चादिवालीनां वहन्तीं भृङ्गसंततिम् ॥ १४३ ।।
पाणिखा(?)पारुणच्छायाकपोलोल्लिखिता धृतिम् ।
दुःखाग्निधूमनिवहैरिव वाष्पाकुलेक्षणाम् ॥ १४४ ॥
कुलविद्यामनभ्यासादनङ्गस्येव विस्मृताम् ।
इन्दोरम्रावलिप्तस्य द्युतिं निपतितामिव ।। १४५ ।।
तां वीक्ष्य राक्षसस्त्रीभिर्विरूपाक्षीभिरावृताम् ।
व्याघ्रीभिरिव घोराभिर्मृगीं चकितलोचनाम् ॥ १४६ ॥
सहसा विस्मयावेशवशगः प्लवगः क्षणम् ।
विमर्शहर्षकारुण्यनिश्चलः समचिन्तयत् ॥ १४७ ॥
इयं श्रीः पुण्यलावण्यसुधासिन्धुसमुद्गता ।
विलासपारिजातस्य स्वसा कुसुमक्रोमला ॥ १४८ ॥
प्रांशुवंशोदिता तन्वी शुचिशीला दुकूलिनी।
साम्राज्यविजयारम्भवैजयन्ती मनोभुवः ॥ १४९ ॥


१. 'हासित' शा०.