पृष्ठम्:रामायणमञ्जरी.pdf/२५५

एतत् पृष्ठम् परिष्कृतम् अस्ति
२४६
काव्यमाला।


यदि चिन्ताकुला नेयं रतिः प्रोषितभर्तृका ।
तत्सैव निश्चितं कान्ता राममानसमानसी ॥ १५० ॥
इयमेव तदारमाभिर्दृष्टा रक्षोहृता सती।
उत्सृष्टपुष्पाभरणा लतेव पवनाकुला ।। १५१ ॥
इयं सा रघुनाथस्य धृतिर्दूरतरं गता।
विदिता जीविताशेव वियोगतनुतां गता ॥ १५२ ॥
अस्याः कृते कीर्तिलता फलिता सा जटायुषः ।
साधुवादोल्लसत्सर्वजनजिह्वाग्रपल्लवा ॥ १५३ ॥
अस्याः कृते सितच्छन्नतिलका कलशस्तनी ।
प्राप्ता श्रीः कपिराजेन चारुचामरहासिनी ॥ १५४ ॥
अस्याः कृते कपिवरैः पृथ्वी सगिरिसागरा ।
दर्शनायोद्यतैः क्रान्ता दिवाकरकरैरिव ॥ १५५ ।।
अहो वताप्रतिहता प्रतिकूलविलासिनी ।
सर्वत्र विवृतद्वारा दैवशक्तिर्गरीयसी ॥ १५६ ॥
विपदः सर्वगामिन्यो दुर्लङ्घ्या भवितव्यता ।
कष्टं कुटिलचेष्टस्य विधेरस्खलिता गतिः ॥ १५७ ॥
त्रैलोक्यरक्षादक्षस्य रधुनाथस्य जीवतः ।
लक्ष्मणस्य च वीरस्य वैदेही विपदां पदम् ॥ १५८ ॥
इमां विना विशालाक्षी कथं जीवति राघवः ।
नियतान्यथ वायूंषि सर्वथा न न जीव्यते ॥ १५९ ॥
वियोगहारितरतेर्विपुले व्यसनानले ।
जीवितालम्ववसुधा प्रियावाप्तिमनोरथः ॥ १६० ॥
इति चिन्तयतस्तस्य चिरं निर्वर्ण्य जानकीम् ।
कार्यवैफल्यजा चिन्ता क्षपेव तनुतां ययौ ॥ १६१ ।।
इति सीतादर्शनम् ॥ ४ ॥


१. 'मन्मथा' शा.. २. 'विधिरस्खलितादरः' शा०. ३. 'लम्बनसुधा' शा०.