पृष्ठम्:रामायणमञ्जरी.pdf/२५७

एतत् पृष्ठम् परिष्कृतम् अस्ति
२४८
काव्यमाला।


स्फारस्फटिकहर्म्येषु कान्ताकेलिमितेषु च ।
ध्वजांशुकेषु च दिनं सावशेषमिवाभवत् ॥ १७५ ।।
ततः संध्यासवापूर्णं तमःस्तोमोत्पलावृतम् ।
तारकाकुसुमसेरं बभौ गगनभाजनम् ॥ १७६ ॥
शोणरत्नगृहालोकरक्तचन्दनचर्चिता ।
राक्षसीमुक्तकेशेव तमोभिरभवत्क्षपा ॥ १७७ ।।
निशि प्रवर्धमानेव नीलरत्नगृहावली ।
चिरायातस्य तमसः प्रत्युत्थानमिवाकरोत् ।। १७८ ॥
अथो निशीथमन्थाद्रिव्याप्ते गगनसागरे ।
उद्ययौ विकटध्वान्तकालकूटे सुधाकरः ॥ १७९ ॥
अशोकवनिकोद्देशे बभौ विम्वं क्षपापतेः ।
छत्रीभूतमिवाशेषपुष्पकोशोद्गतं रजः ॥ १८० ॥
चन्द्रांशुहाससुभगे रराज रजनीमुखे ।
कुमुदामोदमत्तालिमालालोलालकावली ॥ १८१ ॥
प्रौढे निशाकरालोके सीतां मारुतनन्दनः।
ददर्श हर्षरहितां बद्धामिव करेणुकाम् ॥ १८२ ।।
विरहानलसंतप्तश्वासधूसरिताननाम् ।
संततानुकणामर्षकषायारुणलोचनाम् ।। १८३ ॥
अपश्यत्तां समावृत्त्य स्थिता विकृतविग्रहाः ।
नानाप्राणिमुखीर्घोरा नानायुधपरिग्रहाः ॥ १८४ ।।
एकानेकोग्रविस्तीर्णप्रांशुहस्खाङ्गभूपणाः ।
रक्षःपतिसमादिष्ट राक्षसीस्तीवविक्रमाः ॥ १८५ ।।
ताभिरप्यर्दितां वाग्भिर्भर्तृशोकपरायणाम् ।
तरुस्कन्धगतः सीतां दृष्ट्वाभूदुःखितः कपिः ॥ १८६ ।।
अथार्धरात्रे निःशब्दे प्रौढपानमदोत्कटः ।
दष्टः कन्दर्पसर्पण व्यबुध्यत दशाननः ॥ १८७ ।।


१. 'तीक्ष्ण' शा.