पृष्ठम्:रामायणमञ्जरी.pdf/२६४

एतत् पृष्ठम् परिष्कृतम् अस्ति
२५५
रामायणमञ्जरी।


परस्परगुणाबद्धप्रेमप्रणयभूपणः ।
उत्तमाभिमतो रागः खलरागो ह्यतः परः ।। २६५ ॥
इति प्रियावचः श्रुत्वा जानकीतर्जने स्वयम् ।
राक्षसीगणमादिश्य रावणोऽन्तःपुरं ययौ ॥ २६६ ॥
ततः प्रभाते पौलस्त्यराक्षस्यः कोपकम्पिताः ।
सीतामूचुर्विरूपाक्ष्यो भेरीगम्भीरनिःस्वनाः ॥ २६७ ।।
चतुर्थो ब्रह्मणः श्रीमान्वीरो विश्रवसः सुतः ।
धन्यस्ते प्रणयी मूढे पौलस्त्यस्त्रिजगजयी ॥ २६८ ॥
भाग्यहीनस्य किं वान्यन्मिथ्या समुपदिश्यते ।
परित्यजति यः स्फीतं निधानं स्वयमागतम् ॥ २६९ ॥
भ्रूक्षेपमात्रानुमितामाज्ञां यस्य सुरासुराः ।
वहन्ति नम्राः सततं मौलिमालाग्रशालिनीम् ॥ २७० ॥
वरुणः करुणापात्रं शक्रो वक्रमतिः पुनः ।
मारुतो विरतावेगस्तरणिः किरणोज्झितः ।। २७१ ॥
धनदो धनदोषान्तः पावकोऽपावकव्रतः ।
यमः ससंयमो यस्य रोचतां ते स रावणः ॥ २७२ ॥
प्रीत्या प्रणत इत्येवं सावमंस्था दशाननम् ।
तस्येच्छया त्रयो लोका भवन्ति न भवन्ति च ॥ २७३ ।।
प्रणयाद्यदि दर्पान्धे न करिष्यसि नो वचः ।
तदास्मद्दन्तिदन्ताग्रदलिता क्षयमेष्यसि ॥ २७४ ।।
कोमलानि तवाङ्गानि पानक्रीडावदंशताम् ।
गतानि यावदस्माकं तावत्कुरु यथोचितम् ।। २७५ ॥
इति संतर्जिता सीता ताभिर्वाप्पाम्बुवर्षिणी ।
उवाच सर्वं क्रियतां रामो में दैवतं पतिः ॥ २७६ ।।
त्रैलोक्यख्यातयशसस्तस्य रामस्य वल्लभा ।
न जीवितक्षयभयात्करोत्यनुचिते मतिम् ॥ २७७ ।।


१. "विरमद्वेगः' शा..