पृष्ठम्:रामायणमञ्जरी.pdf/२६९

एतत् पृष्ठम् परिष्कृतम् अस्ति
२६०
काव्यमाला।



हत्वा शक्रसुतं वीरं वालिनं वानरेश्वरम् ।
सुग्रीवाय ददौ राज्यं त्वत्कृते रघुनन्दनः ॥ ३२९ ।।
सुग्रीवः कुशलो देवि रामस्य दयितः सुहृत् ।
सेतुस्त्वद्विरहाम्भोधौ त्वदन्वेषणवान्धवः ॥ ३३० ।।
रामः कमलपत्राक्षः सिंहस्कन्धो महाभुजः ।
शशीव राकारहितस्त्वत्कृते तनुतां गतः ॥ ३३१ ॥
सुग्रीवः शाश्वतीं कीर्तिं त्वामवाप्तुं च राघवः ।
कृतक्षणावेककाया लतासक्त फलद्वये ॥ ३३२ ।।
रामस्य दारहरणं सुग्रीवेण च संगमः ।
इयती रावणवधे सामग्री विधिनिर्मिता ॥ ३३३ ॥
त्यक्त्वाहमागतः सीतामिति नित्यमधोमुखः।
ह्रिया शुष्यति सौमित्रिर्याच्ञयेव कुलोन्नतः ॥ ३३४ ॥
स ते कृताञ्जलिर्मातः कुशलं परिपृच्छति ।
तप्तस्तापेन रामस्य सूर्यकान्तो रवेरिव ॥ ३३५ ॥
इति ब्रुवाणो जानक्या पृष्टः पवननन्दनः ।
सुग्रीवसख्यं विपुलामूचे रामकथा पुरः ॥ ३३६ ॥
निखिलं रामवृत्तान्तं निवेद्यास्यै प्लवंगमः ।
प्रददौ रामनामाङ्कं प्रत्ययायाङ्गुलीयकम् ।। ३३७ ।।
सा तदादाय लोलाक्षी हर्षबाप्पाप्लुतस्तनी ।
अभूत्पतिमिवालोक्य पुलकालंकृताकृतिः ।। ३३८ ॥
सावदन्मम दिष्ट्यासौ पतिर्जीविति राघवः ।
अशेषं राक्षसकुलं यस्य कोपानलाहुतिः ॥ ३३९ ॥
रामसुग्रीवयोः सख्यं स विन्ध्यो नाम राक्षसः ।
वृद्धो न्यवेदयन्मह्यं जनस्थानादुपागतः ॥ ३४० ॥
कच्चित्स्मरति मे नाथः कच्चिन्न शिथिलादरः ।
कच्चिन्न दारहरणप्रतीकारो विलम्बते ॥ ३४१ ॥


१.'न' शा.