पृष्ठम्:रामायणमञ्जरी.pdf/२७

पुटमेतत् सुपुष्टितम्
१८
काव्यमाला।

सेयं शशिकला शर्वमौलिमैत्रीपवित्रिता ।
राजते ध्वस्ततिमिरा ध्वस्तमोहेव धीः सताम् ॥ २०६ ॥
कथयित्वेति विरते मुनौ सा यामिनी शनैः ।
जगाम कुमुदाबन्धुभीतेव भ्रमरावली ॥ २०७॥
इति कौशिकवंशः ॥ ६ ॥
ततः शोणं समुत्तीर्य जाह्नवीं च शनैर्वनम् ।
ते प्राप्य गङ्गापुलिने दिनान्ते चक्रिरे स्थितिम् ॥ २०८ ।।
गङ्गावतरणं तत्र पृष्टो रामेण कौतुकात् ।
मुनिमध्ये सुखासीनो वभाषे कौशिको मुनिः ॥ २०९ ॥
बभूवतुर्दुहितरौ पुरा हिमवतो गिरेः ।
गङ्गा च देवतटिनी गौरी च भववल्लभा ॥ २१० ॥
उग्रेण तपसा देवी वरं प्राप्य पिनाकिनम् ।
विजहार चिरं दिव्यकैलासगिरिसानुषु ॥ २११ ॥
तत्र स्पर्धानुबन्धेन प्रवृत्ते रतिसंगरे ।
अश्रान्तमेवेश्वरयोर्दिव्यं वर्षशतं ययौ ॥ २१२ ॥
अथ ब्रह्ममुखा देवास्त्रस्तास्त्रैलोक्यविप्लवात् ।
अतो भूतं समुद्भूतं धर्तु शक्ष्यति को न्विति ॥ २१३ ।।
ते गत्वा शरणं सर्वे मेघव्यवहिताः पुरा ।
महारतस्य विरतिं प्रणिपत्य ययाचिरे ॥ २१४ ॥
तानुवाच हरः प्रीत्या भगवान्भूतभावनः ।
क्षुभितं मे निजपदात्कस्तेजो धारयिष्यति ॥ २१५ ॥
इत्युक्ते चन्द्रचूडेन जगदुः प्रणताः सुराः ।
दुःसहं भवतस्तेनो धर्तु देवी क्षमा क्षितिः ॥ २१६ ॥
सेयं भूतपरित्राणं भूतधात्री करिष्यति ।
इत्युक्ते त्रिदशैर्देवः क्षितौ वीर्यमिवासृजत् ॥ २१७ ।।


१. रेतः,