पृष्ठम्:रामायणमञ्जरी.pdf/२७३

एतत् पृष्ठम् परिष्कृतम् अस्ति
२६४
काव्यमाला।


विचाराचारसहितो मां समुत्तारयिष्यति ।
अथ वा सर्वमेव त्वं जानीषे धीमतां वर ॥ ३८० ।।
स्वयैव तस्य ह्युचितं तत्तद्वाच्यः पतिर्मम ।
इति निद्रायमाणासु राक्षसीषु प्लवंगमः |
श्रुत्वा सीतावचः क्षिप्रं तामामन्य शनैर्ययौ ॥ ३८१ ॥
इति हनुमत्सीतासंभाषणम् ॥ ७ ॥
सीतां प्रदक्षिणीकृत्य प्रस्थितः पवनात्मजः ।
वर्धमानवपुर्वीरः कार्यशेषमचिन्तयत् ॥ ३८२ ।।
रामकार्यं कृतं तावद्यदर्थं प्रेषिता वयम् ।
तदुक्ताभ्यधिकं कर्तुमधुना मे मनोरथः ।। ३८३ ॥
एककार्यविसृष्टानामनेकार्थविधायिनाम् ।
स्वामिसन्मानसफलं जीवितं वर्धमायिनाम् ॥ ३८४ ॥
निशि सुप्तजनां लङ्कां दृष्ट्वा चोर इवाखिलाम् ।
गमिष्याम्यपरिज्ञातः कथं भुजबलोऽर्जितः ॥ ३८५ ॥
स्वीकारविमुखा घोरा न भिद्यन्ते सुसंहताः ।
नार्थिनो जितवित्तेशा युद्धार्हा एव राक्षसाः ॥ ३८६ ॥
तस्मादशोकवनिकां दयितां राक्षसप्रभोः ।
युद्धदूतीं करोम्येष निखिलोद्धूलितद्रुमाम् ॥ ३८७ ।।
इति संचिन्त्य हनुमान्रसपूर्णाश्रुवर्षिणः ।
बभञ्ज पादपान्स्रस्तपुष्पपल्लवभूषणान् ॥ ३८८ ।।
अश्वकर्णैर्निपतितैर्नागैश्च शकलीकृतैः ।
रणाङ्गणमिवोद्यानमभूदस्तशिलीमुखम् ॥ ३८९ ॥
दवेषु पतितेष्वग्रे वभुर्विवलिता लताः।
उद्धूतालिकुलालापैः साक्रन्दा इव योषितः ॥ ३९० ॥
महातरूणां पततां त्रस्तानां च पतन्त्रिणाम् ।
पूरिताशावकाशेन शब्देन बुबुधे जनः ॥ ३९१ ।।


१. 'न जाने केन वचसा' शा०. २. 'सं' शा०, ३. 'वैशस्याम्. ४, रम्यमुचितं शा०.