पृष्ठम्:रामायणमञ्जरी.pdf/२७९

एतत् पृष्ठम् परिष्कृतम् अस्ति
२७०
काव्यमाला।


तस्मिन्समुद्यते योद्धं चकम्प साचला मही ।
क्षोभोऽभवन्महाम्भोधेः प्रववौ न च मारुतः ॥ ४५४ ॥
स हेमपुङ्खैर्विशिखैः समापूर्य प्लवंगमम् ।
उन्ननादः सुरस्त्रीणां संत्रासगुरुतां गतः ॥ ४५५ ।।
सुरराजरणोत्साहबजोल्लिखितवक्षसम् ।
कुमारमक्षं हनुमान्सावष्टम्भमयोधयत् ॥ ४५६ ।।
ततो बभूव गगने योधयोः समरोत्सवः ।
निरालम्बस्य च कपेः सरथस्य च रक्षसः ॥ ४५७ ॥
तुलाभिधातोन्मथितस्तस्य मारुतिना रथः ।
पपात गगनाकारः सच्छत्रध्वजकूवरः ॥ ४५८ ॥
स खड्गः श्यामले व्योम्नि विचरन्खड्गचर्मभृत् ।
धैर्यराशेरपि कपेर्मतिमोहमिवाकरोत् ॥ ४५९ ।।
ततश्चरणयोर्वीरं तमादाय प्लवंगमः ।
सहस्रशः परिभ्राम्य क्षितौ क्षिप्रमपातयत् ॥ ४६० ॥
तं पिष्टमुकुटं कीर्णकेयूरं दलिताङ्गदम् ।
निर्मथ्योद्गीर्णरुधिरं व्यसुं तत्याज मारुतिः ।। ४६१ ॥
अबालचरिते वाले हते तमिन्सुरद्विपि ।
शशी मुमोच सुचिरात्स्वर्गविष्टं ससाध्वसम् ॥ ४६२ ॥
इत्यक्षवधः ॥ १३ ॥
हते कुमारे पौलस्त्यो न शुशोच रुषा ज्वलन् ।
न ह्यमर्षपदे शोकः प्रभवत्यभिमानिनाम् ॥ ४६३ ॥
स निश्वसन्क्षणं ध्यात्वा जगादेन्द्रजितं सुतम् ।
प्रभावेण प्लवंगस्य परं विस्मयमागतः ॥ ४६४ ॥
कियती विक्रमश्लाघा क्रियते जयिनस्तव ।
अन्वर्थयुक्तं नामैव यस्य लोकेषु गीयते ॥ ४६५ ॥


१. 'क्रुधा' शाक. २. दुःखं' शा..