पृष्ठम्:रामायणमञ्जरी.pdf/२८१

एतत् पृष्ठम् परिष्कृतम् अस्ति
२७२
काव्यमाला।


ब्रह्मास्त्रवारणे शक्तिरस्ति मे ब्रह्मणो वरात् ।
तथापि धारयाम्येतदस्त्रं मन्त्रस्य गौरवात् ।। ४७९ ॥
पाशवद्धस्य चावश्यं दर्शनं मे भविष्यति ।
दशकण्ठसभास्थाने संवादश्च चिरं स्थितः ॥ ४८० ॥
इति चिन्तयतस्तस्य तूर्णं विग्रहमाग्रहात् ।
रज्जुवल्कलवल्लीभिर्वबन्धुः पिशिताशिनः ॥ ४.८१ ॥
रज्जुबद्धस्य तस्यास्त्रपाशाः क्वापि स्वयं ययुः ।
न महान्तः सहन्ते हि प्राकृतैः समशीर्षकाम् ॥ ४८२ ॥
अस्त्रमुक्तोऽपि मिथ्यैव दर्शयन्वन्धुमात्मनः ।
कृष्यमाणश्च रक्षोभिः सर्वं सेहे महाकपिः ।। ४८३ ।।
इति हनुमद्रहणम् ॥ १४ ॥
ततो निशाचरैर्नीतः क्षिप्रं रक्षापतेः सभाम् ।
प्रभामिव प्रतापाग्ने रक्तरत्नां ददर्श सः ॥ ४८४ ॥
तां प्रविश्य वृतां वीरः श्रेणीभिस्त्रिदशद्विषाम् ।
स्फाररत्नासनासीनं राक्षसेन्द्रं व्यलोकयत् ॥ ४८५ ॥
द्राग्वध्यो बहिरेवायं दृष्टेन किमनेन नः ।
इत्यनल्पोऽभवज्जल्पस्तत्र तं वीक्ष्य रक्षसाम् ॥ ४८६ ॥
कपिर्दृष्ट्वा दशग्रीवं त्रैलोक्यविजयोर्जितम् ।
सृजन्तं रत्नमुकुटत्विषा बालातपश्रियम् ॥ ४८७ ॥
चामराश्चितहस्तानां कान्तानां गण्डभित्तिषु ।
चित्रपत्रनखोल्लेखाः कुर्वाणं भूषणांशुभिः ।। ४८८ ॥
सुस्कन्धैः स्फारकेयूरकिरणारुणपल्लवैः ।
हारांशुकुसुममेरैर्भूषितं भुजपादपैः ॥ ४८९॥
वज्राद्रिभङ्गगुरुभिर्वक्षोभिर्व्यक्तविक्रमैः ।
आसेव्यमानं रक्षोभिस्त्रिजगज्जयलक्षणैः ।। ४९० ॥
निर्भर्त्सितो वेत्रिगणैः पुरः परुषवादिभिः ।
अचिन्तयत्क्षणं गाढं विस्मयावेगनिश्चलः ॥ ४९१ ॥