पृष्ठम्:रामायणमञ्जरी.pdf/२८२

एतत् पृष्ठम् परिष्कृतम् अस्ति
२७३
रामायणमञ्जरी।


अहो धैर्यममर्यादमहो साम्राज्यमूर्जितम् ।
अहो सुरासुरलाध्याः सावष्टम्भा विभूतयः ।। ४९२ ॥
अहो बतास्य पुरतः प्रकम्पन्ते महौजसः ।
न वाचांसि न चेतांसि न तेजांसि तपांसि वा ॥ ४९३ ।।
वलं कैलासमूलेषु प्रतापः खुरवेश्मसु ।
प्रयाति लक्ष्यतामस्य श्रीराश्रितगृहेषु च ॥ ४९४ ॥
समस्तभुवनैश्वर्यमहत्येष न संशयः ।
यदि न स्यादयं पापः क्रूरः क्रूरतरैर्वृतः ॥ ४९५ ॥
सदाचारः श्रियो मूलं प्रभावे गुणसंभवः ।
इति प्रवादोऽप्येतेन बलान्मन्ये तिरस्कृतः ।। ४९६ ॥
अहो दुर्नयपक्षस्य व्यसनस्यायता गतिः ।
इयतीं भूमिमारूढा ह्रियन्ते येन संपदः ॥ ४९७ ॥
इति विस्मयनिस्पन्दे चिन्तयत्यनिलात्मजे ।
कोऽयं कस्य कुतो वेति प्रहस्ते रावणोऽब्रवीत् ।। ४९८ ॥
ततो जगाम प्लवगं प्रहस्तः शासनात्प्रभोः ।
प्रीतिप्रसादितोष्ठाग्राद्दयां संदर्शयन्निव ।। ४९९ ॥
कपे कथय कस्यासि न भयं विद्यते तव ।
न हि नाम निपात्येषु पतन्ति प्रभुदृष्टयः ॥ ५०० ।।
मन्ये न प्रेषितस्तावत्त्वं शक्रवरुणादिभिः ।
ललाटे लोकपालानां न शक्तिर्लिखितैव सा ॥ ५०१ ।।
लङ्काभिलाषिणो विष्णोः कुतः सा प्रभविष्णुता ।
ते तस्य जीर्णाः सततं स्वाङ्गेप्वेव मनोरथाः ॥ ५०२ ॥
माया कथय कत्येयमात्मक्षयविधायिनी ।
वदतस्तव मोक्षोऽस्ति मौने निःसंशयो वधः !! ५०३ ॥
इति ब्रुवाणे सावज्ञं प्रहस्ते पवनात्मजः ।
उवाच रावणाग्रेऽपि प्रतिभाभरणं वचः ॥ ५०४ ॥

३५