पृष्ठम्:रामायणमञ्जरी.pdf/२८७

एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। कचिद्विश्वतिरस्कारमार्जनीवल्लरीनिभैः ॥ ५५६ ॥ कचित्सुदीप्तविलठत्सुमेरुशिखरोपमैः । कचिद्धूमपिशाचस्य पिङ्गश्मश्रुशिखासखैः ॥ ५५७ ।। कचिद्गृहविहंगानां हेमपञ्जरविभ्रमैः । क्वचिद्योमाव्धिपर्यन्तविद्रुमद्रुमसोदरैः ॥ ५५८ ।। क्वचिन्मेघगजेन्द्राणां हेमसंनाहसंनिभैः । कृशानोरर्चिपां चक्रैरपूर्यन्त दिशो दश ॥ ५५९ ॥ स्फुलिङ्गालिकिसलयो धूमश्यामलपल्लवः । शिखाशाखोऽपि विटपो लङ्कातङ्काफलोऽभवत् ।। ५६० ॥ हनुमत्परिघावातभग्नानां मणिवेश्मनाम् । प्लुष्टानां पततां शब्दस्तीत्राक्रन्द इवविभौ ॥ ५६१ ॥ ज्यालामालाकुला लङ्का जलधौ प्रतिविम्विता । तापनिर्वापणायैव निमग्नान्तरदृश्यत ॥ ५६२ ।। वेगदीर्घीकृताश्चेरुर्व्योम्नि वह्निकणाश्विरम् । रामचापच्युता हेमनाराचनिचया इव ॥ ५६३ ॥ विमानध्वजपालीपु पवनाकुलपल्लवः । अवाप पावकः क्षिप्रं लीलापाटलपद्धतिम् ॥ ५६४ ॥ सगोपुरपुरद्वारसभाभवनभित्तिषु । सालाट्टाहालप्रतोलीषु दीप्तासु पतितास्वपि ।। ५६५ ॥ एष दूरे स्थितस्तूर्णसमं प्राप्तो हता वयम् । अनिलोत्तालिते वह्रौ बभूवेति जनस्वनः ॥ ५६६ ॥ ततः क्षपाचरान्कूरक्रोधानायुधवर्षिणः । उत्पाट्य कनकस्तम्भ जधान पवनात्मजः ॥ ५६७ ॥ ज्वालास्तम्भभुजं वह्निं समास्तम्भायुधं कपिम् । त्रम्ताः सर्वत्र ददृशुर्विश्वरूपं क्षपाचराः ॥ ५६८ ॥ अत्रान्तरे जनकजां सरमा नाम राक्षसी। 'वोद्यायौ' शा. 2. 'पटलपट्टताम्' शाक.