पृष्ठम्:रामायणमञ्जरी.pdf/३०

पुटमेतत् सुपुष्टितम्
२१
रामायणमञ्जरी।

ते तमश्वहरं ज्ञात्वा संरम्भात्समभिद्रुताः ।
तद्दृष्टिनष्टाः प्रययुर्भस्मकूटावशेषताम् ।। २४२ ।।
सगरेण विसृष्टोऽथ पौत्रः साधुरयांशुमान् ।
प्रविश्य पातालतलं दिग्द्विपेन्द्रगिरा वशी ।। २४३ ॥
ज्वलत्कपिलकोपेन निर्दग्धान्सगरात्मजान् ।
तन्मातुलस्य च गिरा ज्ञात्वा तार्क्ष्यस्य दुःखितः ॥ २४४ ॥
पापापनुत्तये तेषां ज्ञात्वा मन्दाकिनीपयः ।
चरन्तं हयमासाद्य गत्वा पित्रे न्यवेदयत् ॥ २४५ ॥
समाप्ते विधिवद्यज्ञे सगरो भूभृतां वरः।
त्रिंशद्वर्षसहस्राणि राज्यं कृत्वा दिवं ययौ ॥ २४६ ॥
ततोंऽशुमानभूद्राजा सुचिरं तेजसां निधिः ।
राज्यं दत्त्वा दिलीपाय पुत्राय गुणशालिने ॥ २४७ ॥
द्वात्रिंशत्स सहस्राणि वर्षाणां तुहिनाचले ।
तपः कृत्वा ययौ दिव्यं धाम धुर्यो महीभृताम् ।। २४८ ॥
दिलीपोऽब्दसहस्राणां राज्यं कृत्वापि विंशतिम् ।
भगीरथाय पुत्राय श्रियं दत्वा दिवं ययौ ॥ २४९ ।।
श्रुत्वा सगरपुत्राणां पूर्ववृत्तं भगीरथः ।
ऊर्ध्वबाहुस्तपश्चक्रे गोकर्णे स्थाणुनिश्चलः ॥ २५० ।
ततो वर्षशतस्यान्ते तमभ्येत्य प्रजापतिः ।
वरं गृहाणेत्यवदत्तच्छ्रुत्वा स नृपोऽभ्यधात् ॥ २५१ ।।
अवतीर्णेन भगवन्गाङ्गेन नमसोऽम्भसा ।
आप्लावयितुमिच्छामि भस्मीभूतान्पितामहान् ॥ २५२ ।।
सदा निरवसादं च कुलमिक्ष्वाकुभूभृताम् ।
उक्ते भगीरथेनेति तमूचे चतुराननः ।। २५३ ।।
राजन्गङ्गावतारोऽस्तु कुलं वोऽस्तु सदोदितम् ।
धर्तु सुरापगावेगं किं तु शर्वः प्रसाद्यताम् ॥ २५४ ॥


१. 'द्वात्रिंशच्छतसाहस्रं' रामायणे.