पृष्ठम्:रामायणमञ्जरी.pdf/३०४

पुटमेतत् सुपुष्टितम्
२९५
रामायणमञ्जरी।


असमानजने साम कृपया यदि युज्यते ।
तत्सौजन्यं जनो जातु भयमेवाभिमन्यते ॥ ६४ ॥
मनुष्यस्य वधे देव चिन्तास्माकं न शोभते ।
न जम्बुकवधे सिंहः स्वप्नेऽपि कुरुते मतिम् ॥ ६५ ।।
अधुना स्वस्ति मन्त्राय मन्त्रिभ्यश्चायमञ्जलिः ।
भृत्यलेशाज्ञया तूर्णं क्रियतां वानरक्षयः ॥ ६६ ॥
सरामलक्ष्मणस्यास्य कपिसैन्यस्य भक्षणम् ।
मह्यं भृत्याय भवता प्रमाणीक्रियतां विभो ।। ६७ ।।
इति ब्रुवाणे दर्पान्धे महापार्श्वे मदोदरः ।
कोपात्तद्वाक्यमाक्षिप्य जगाद जगतां रिपुः ॥ ६८ ॥
पतङ्गपुत्तिकादंशपिपीलकसरीसृपाः ।
वानरा वा कथं नाम शङ्कास्थानं भवादृशाम् ॥ ६९ ।।
पराभवास्पदं कस्माद्वयं निर्जितनिर्जराः ।
वनेषु लुब्धकैर्वध्या बलिनः केन वानराः ॥ ७० ॥
मनोरथविकल्पानां स्वच्छन्दा कियती गतिः ।
यैस्तृणीक्रियते मेरुर्मेरुतां नीयते तृणम् ।। ७१ ॥
नूनं देव न जानीषे प्रभावं वयमात्मनः ।
परमात्मा जगद्व्यापी खस्वभावमिवेश्वरः ।। ७२ ॥
अपर्याप्ता हरिचमूः सालतालशिलायुधा ।
कुक्षिकोणैकदेशेऽपि पर्याप्तं न हि भोजनम् ॥ ७३ ।।
मद्दंष्ट्रायन्त्रसंघट्टनिप्पिष्टाः प्लवगा मिथः ।
एकीभूता इव प्रीत्या यान्तु प्रेतपतेः पुरीम् ।। ७४ ॥
इति तेषां वचः श्रुत्वा राक्षसानाममर्षिणाम् ।
बभाषे भीषणं भ्रातुर्नाशं ज्ञात्वा विभीषणः ॥ ७९ ।।
प्रमादमदमत्तानां श्वभ्रे निपततां बलात् ।
मृणालतन्तुना केन क्रियते गतिसंयमः ॥ ७६ ॥


१. 'मेन' शा. २'मिषः'शा..