पृष्ठम्:रामायणमञ्जरी.pdf/३०८

पुटमेतत् सुपुष्टितम्
२९९
रामायणमञ्जरी।


का नाम कृपणे तस्मिन्यस्य चिन्ता कुतापसे ।
सुरासुररणोत्साहविजयो विस्मृतः स किम् ॥ ११६ ॥
नीचोत्कर्षकथादुःखं सहते नोन्नतं मनः ।
येनेयं विक्रमश्लाघा क्रियते स्वयमात्मनः ।। ११७ ॥
अद्यापि लोचनपथे धत्ते पिष्टः क्षितौ मया ।
द्वेषोष्मणा रजोभिश्च तुल्यं कलुषतां हरिः ॥ ११८ ।।
ऐरावणरदाकृष्टिच्छद्मना प्रसभं मया ।
मूलमुन्मूलितं मन्ये सुरराजयशस्तरोः ॥ ११९ ॥
समरे लोकपालानां विद्रुतानां भयान्मम ।
नाद्यापि पदवी लब्धा वधूभिर्वनवर्त्मसु ।। १२० ॥
तस्य मे तापसकथा मिथ्याशौर्यमयी पुरः ।
क्रियमाणा कथं नाम नो प्रयात्युपहास्यताम् ॥ १२१ ॥
इति शक्रजितो वाक्यं श्रुत्वोवाच विभीषणः ।
बिभ्राणः कोपरजनीचन्द्रिका हसितच्छटाम् ।। १२२ ॥
अद्याप्यपकबुद्धिस्त्वं बालकः पेशलाशयः ।
बलावलं विजानीषे न परस्य न चात्मनः ॥ १२३ ॥
पुत्ररूपो ध्रुवं शत्रुस्त्वं पितुर्दुर्नयोचितः ।
यदस्यातिप्रमत्तस्य राघवात्क्षयमिच्छसि ॥ १२४ ॥
ब्रह्मशापोपमास्तीक्ष्णाः शराः शिखरिभेदनाः ।
सह्यन्ते येन रामस्य जनो जातो न जातु सः ॥ १२५ ॥
सीता समर्म्यतां तस्मै रत्नैः सह सुरोचितः ।
कृच्छ्रे त्यक्त्वापि सर्वस्वं रक्षेचात्मानमात्मवित् ।। १२६ ॥
हन्ता मारीचमुख्यानां वीरः सुग्रीवराज्यदः ।
रामः कामं नरेन्द्रोऽस्तु कानने वास्तु तापसः ॥ १२७ ।।
कर्मणामेष संकल्पः काकुल्यो यद्वनेचरः ।
दाता त्रैलोक्यराज्यानां भस्मशायी महेश्वरः ॥ १२८ ।।