पृष्ठम्:रामायणमञ्जरी.pdf/३०९

पुटमेतत् सुपुष्टितम्
३००
काव्यमाला।


अस्मत्क्षयाय स परं निविष्टो जलधेस्तटे ।
सर्वैः स्वयमितो गत्वा सर्वस्वेन प्रसाद्यताम् ।। १२९ !
तेन क्लेशनिमित्तेन वित्तेन निष्कलेन किम् ।
यत्कुलस्यात्मनो वापि रक्षार्थं नोपयुज्यते ।। १३० ।।
न भुक्तेषु न भुक्तेषु वृद्धानां विनयेष्विव ।
धनादानेषु लुब्धानां निधनावधिरादरः ॥ १३१ ।।
धनेन रक्ष्यतामात्मा स पुनर्धनभाजनम् ।
न त्वात्मनि गते वित्तं पुरुषाननुगच्छति ।। १३२ ॥
श्रुत्वैतत्कलुषं भ्रातुर्वचः कोपारुणेक्षणः ।
श्वसन्बभूव पौलस्त्यः कम्पव्यालोलकुण्डलः || १३३ ॥
गम्भीरं कोपमालोक्य शीलज्ञास्तस्य मन्त्रिणः ।
चकम्पिरे चिरं धीरा भूकम्पादिव भूधराः ।। १३४ ॥
सोऽवदत्पाणिना पाणिं निष्पिष्य स्वेदसंप्लुतः ।
दीप्तरत्नाङ्गदालोकैर्निर्धष्याग्निं सृजन्निव ॥ १३५ ।।
प्रियायैवाप्रियेणोक्तं श्रुत्वा कोपोत्कटं वचः ।
विरक्तस्य स्मितेनापि जायेते कोपसाध्वसे ॥ १३६ ।।
पापदुष्प्टेन मनसा भाषसे प्रतिभान्वितम् ।
हितमप्यप्रमाणं तन्मम पथ्यमिवाशुचि ॥ १३७ ।।
रागद्वेषविकल्पेषु प्रमाणं सर्वथा मनः ।
रतौ दन्तक्षतैः प्रीतिस्तैरेव कलहे व्यथा ॥ १३८ ॥
अहो बत वयं सर्वे वञ्चिताः सरलाशयाः ।
येषां विभीषणे मिथ्या गुणसंभावनाभवत् ॥ १३९ ॥
दम्भदिग्धगुणस्यास्य किं पाण्डित्येन किं धिया ।
अभिमानमयं यस्य धैर्यं नास्त्येव जीवितम् ॥ १४० ॥
पूर्वापकारिणा संधिं शत्रुणा यः समीहते ।
मन्त्रे वा विक्रमे वापि स किमायास्यते पशुः ॥ १४१॥