पृष्ठम्:रामायणमञ्जरी.pdf/३१

पुटमेतत् सुपुष्टितम्
२२
काव्यमाला।

दिवः सा वेगनिर्घातनिपातक्षुभितं क्षणात् ।
दारयत्येव गङ्गायाः पातालं सप्तमं पयः ।। २५५ ।।
सहेत कस्तदन्यत्र देवदेवान्महेश्वरात् ।
इत्युक्त्वा पद्मभूर्गङ्गामादिदेश तदीप्सिताम् ॥ २१६ ॥
अथ राजा निराहारनिरुद्धप्राणधारणः ।
वर्ष तपश्चचारैकचरणाङ्गुष्ठनिष्ठितः ॥ २५७ ॥
ततस्तुष्टस्तमभ्येत्य भगवान्भूतभृद्भवः ।
त्वद्वाञ्छितं करोमीति बभाषे शशिशेखरः ।। २५८ ॥
अधिरुह्याथ शिखरं स तुषारमहीभृतः ।
विप्रकीर्णजटाजूटं जीमूतपटलोपमम् ॥ २५९ ।।
देवदेवश्च प्रोवाच देवस्त्रिदशवाहिनीम् ।
दन्तांशुभिस्तत्प्रवाहः सूत्रपातमिवाचरन् ॥ २६० ॥
ततस्तरङ्गसंघातसंघट्टविकटा सरित् ।
पपात मूर्ध्नि देवस्य स्फीतफेनाट्टहासिनी ॥ २६१॥
सा बभ्राम जटाजूटे चिरं देवस्य धूर्जटेः ।
गम्भीरग्रन्थविज्ञाने मुग्धस्येवाल्पिका मतिः ॥ २६२ ॥
अप्राप्तमार्गा सा तत्र ग्राम्येव नगराङ्गना ।
न ससादार्थमत्यन्तभ्रान्तिश्रान्तेव मूर्छिता ॥ २६३ ।।
ततः संवत्सरे पूर्णे तपसा प्रार्थितो भवः ।
भगीरथेन तत्याज जटां निष्पीड्य जाह्नवीम् ।। २६४ ॥
सा शंकरशिरःशृङ्गविभ्रष्टा जगतीं ययौ ।
वन्द्यमाना जगद्वन्द्यैः सिद्धैः संविदितात्मभिः ॥ २६५ ।।
स्फुटस्फटिकशैलाभैरदभ्रशुभ्रपातिभिः ।
बभौ क्ष्मां क्षालयन्ती सा निर्घोषोद्वेलितैर्जलैः ॥ २६६ ॥
चलत्कुटिलकल्लोलविलाससलिलेन सा ।
चक्रे बालानिलालोलदुकूलकलनां भुवम् ।। २६७ ॥