पृष्ठम्:रामायणमञ्जरी.pdf/३१०

पुटमेतत् सुपुष्टितम्
३०१
रामायणमञ्जरी।


अपनीतायुधो रामः शरणं यदि मा व्रजेत् ।
तदेतदुक्तं युक्तं स्याद्विनयः कस्य न प्रियः ॥ १४२ ॥
शत्रुलेशप्रणाशं मे प्रमाणं सुभटाः परे ।
भीरुस्वभावः कार्येऽस्मिन्बहिरास्तां विभीषणः ॥ १४३ ॥
रामे यद्यस्य रमते बुद्धिर्विबुधमानिनः ।
तत्तमेव प्रयात्वेष विरक्तः केन सह्यते ॥ १४४ ॥
इति ब्रुवाणे सावेगं क्रोधान्धे दशकंधरे ।
ससंरम्भेष्वमात्येषु पुनरूचे विभीषणः ॥ १४५ ।।
वल्लभं सर्वजन्तूनां जीवितं यस्य न प्रियम् ।
उन्मार्गगामिनस्तस्य हितवादी कथं प्रियः ।। १४६ ॥
अधर्मं स्वविनाशाय यः समाचरति स्वयम् ।
किमात्मशत्रुणा तेन प्रीतेन कुपितेन वा ।। १४७ ॥
किं चित्रं यदि धर्मस्थे रामे मे रमते मतिः ।
आनन्दाय न कस्येन्दुः सुधानिष्पन्दसुन्दरः ॥ १४८ ॥
प्रमादी प्रार्थ्यमानोऽपि पथ्यं गृह्णाति नैव यः ।
सत्यं तस्य विनाशेन नृत्यन्ति स्वजना अपि ॥ १४९ ।।
स मन्त्रो मन्त्रिभिर्यत्र व्यसनाद्वार्यते नृपः ।
शिष्टचित्तग्रहायैव प्रमत्तस्यानुभाषणम् ॥ १५० ॥
स्वभ्रापातोद्यतो राजा मन्त्रिणोऽनुमतप्रदाः ।
सेयं विनाशसामग्री दैवेन घटिता परम् ॥ १५१ ।।
श्रुत्वैतत्कोपसंतप्तः समुत्थाय दशाननः ।
साम्राज्यमिव पादेन जघानाशु विभीषणम् ।। १५२ ॥
स पपात हतस्तेन तेजस्वी कनकासनात् ।
अस्ताचलादिव रविः शर्वर्यन्तरितोदयः ॥ १५३ ॥
तमभ्यधावदाकृष्य खड्गं व्यालोलकुण्डलः ।
रावणश्चक्रचापाङ्कस्तडितत्पिङ्ग इवाम्बुदः ।। १५४ ॥