पृष्ठम्:रामायणमञ्जरी.pdf/३११

पुटमेतत् सुपुष्टितम्
३०२
काव्यमाला।


स निरुद्धः प्रहस्तेन बाहुभ्यां प्रियवादिना ।
निजमासनमासाद्य निःश्वसन्पुनरभ्यधात् ॥ १५५ ।।
तूर्ण निष्कास्यतामेष निलयान्निरपत्रपः ।
क्लैब्याद्भयाद्वा यस्येयं जाता शत्रुस्तवे मतिः ॥ १५६ ॥
परपक्षप्रियो वक्तुं नार्हत्येष पुरो मम ।
न तथा दुःसहः शत्रुर्यथा शत्रुसमाश्रितः ॥ १५७ ।।
ज्ञातिभ्यो भयमुत्पन्नं वह्निर्वेणुवनादिव ।
प्रभावद्वेषिणो नित्यं ज्ञातयो गूढशत्रवः ॥ १५८ ॥
ज्ञातयो ज्ञातसंचाराश्छिद्रेषु व्यसनैषिणः ।
न सहन्ते गुणोद्विग्नास्तुल्या कुलजनोन्नतिम् ॥ १५९ ॥
न दानेन न मानेन नोपकारैर्न संस्तवैः ।
ज्ञातयः परितुष्यन्ति क्षयसंदर्शनादृते ॥ १६० ॥
शिक्षाहस्तिसमाकृप्टैः श्रूयन्ते हस्तिभिः पुरा ।
श्लोका पद्मवने गीताः कूटपाशवशंगतैः ॥ १६१ ॥
विपशस्त्राग्निसर्पेभ्यो न भयं विद्यते नृणाम् ।
सुप्ताभिघातप्रतिमं घोरं ज्ञातिकृतं भयम् ॥ १६२ ।।
स्वार्थप्रधानविद्वेषाद्रूढमायाप्रहारिणः ।
नेच्छन्ति ज्ञातयो वृद्धिं स्वजनस्य क्षयोत्सुकाः ॥ १६३ ।।
दुर्जनात्पातकमिव स्त्रीचित्तादिव चापलम् ।
अहिवक्रादिव भयं नापैति ज्ञातितो भयम् ॥ १६४ ॥
तस्मात्क्षिप्रं प्रयात्वेव यत्रास्य रमते मतिः।
प्रिया प्रियत्वं लोकस्य चक्षुषः केन वार्यते ॥ १६५ ॥
इत्युक्ते दशकण्ठेन संरम्भललिताङ्गदम् ।
प्रहस्तो हस्तमुद्यम्य भ्रान्तभ्रूयुगलोऽभ्यधात् ॥ १६६ ॥
क्रुद्धस्ते रावणो राजा दिशो गच्छ विभीषण ।
न ह्यतुष्टे दशग्रीवे भुज्यन्ते भोगसंपदः ॥ १६७ ॥


१. 'निष्काल्यता' शा.. २. 'विषया' शा०. ३. 'समाश्रयः' शा०.