पृष्ठम्:रामायणमञ्जरी.pdf/३१२

पुटमेतत् सुपुष्टितम्
३०३
रामायणमञ्जरी।


सोऽपि वैश्रवणः श्रीमाननेनाज्ञाव्यतिक्रमात् ।
भ्रूभङ्गनष्टविभवो भ्राता ज्येष्ठो विवासितः ॥ १६८ ॥
उक्त्वेति हस्तेनाकृप्य प्रहस्तो रावणानुजम् ।
उवाच गच्छ गच्छेति क्रोधाध्मातः पुनः पुनः ॥ १६९ ॥
ततो हरिप्रभृतिभिश्चतुर्भिः सचिवैः सह ।
विभीषणो गदापाणिर्विवेशाकाशमाशुगः ॥ १७० ।।
इति विभीषणनिष्काशनम् ॥ २॥
स दृष्ट्वा मातरं तूर्णं प्रणिपत्याभिवाद्य च ।
निवेद्यास्य यथावृत्तं प्रययौ व्योमवर्त्मना ।। १७१ ॥
तस्य कुण्डलकेयूरमौलिरत्नांशुभिर्दिशः।
ययुर्नृत्यन्मयूराणां वनानां तुल्यरूपताम् ।। १७२ ।।
व्रजन्तं तेजसा राशिं चलत्पीतांशुकाञ्चलम् ।
तं मेरुमिव संध्याभ्रमालितं ददृशुः सुराः ॥ १७३ ।।
रामाभिमुखमायान्तं तं सुग्रीवपुरोगमाः ।
शङ्किताः प्लवगा वीक्ष्य युद्धायैव समुद्ययुः ॥ १७४ ।।
संरब्धान्वानरान्वीरान्दृष्ट्वा धीमान्विभीषणः ।
समुद्रस्योत्तरे पार्श्वे तस्थौ स्वेक्षणनिश्चलः ॥ १७५ ॥
दूरात्स्वनेन महता घनघोपानुकारिणा ।
सुग्रीवं दर्शनोद्ग्रीवं सानुगं स समभ्यधात् ।। १७६ ।।
भो भोः प्लवङ्गमाः सर्वे राक्षसोऽहं विभीषणः ।
रावणस्यानुजो वीरं द्रष्टुमिच्छामि राघवम् ।। १७७ ॥
त्यज्यतां जानकी भ्रातर्मयेत्युक्तो दशाननः ।
हितं वचो न जग्राह मुमूर्श्हुरिव व भैषजम् ॥ १७८ ।।
तै रावणादिभिः सर्वैः कोपादतिविमानितः ।
गुणानुरागाद्यातोऽहं शरणं रघुनन्दनम् ॥ १७२ ।।


१. 'मन्त्रिभिः' शा.. २. 'तेनासनविनाशेन शा०.