पृष्ठम्:रामायणमञ्जरी.pdf/३१३

पुटमेतत् सुपुष्टितम्
३०४
काव्यमाला।


संत्यक्तपापं स्वजनं सदाचारजनप्रियम् ।
निवेदयत रामाय मामकिल्बिषमागतम् ॥ १८० ॥
इति तस्य वचः श्रुत्वा सुग्रीवोऽभ्येत्य राघवम् ।
राक्षसाचारचकितस्तदुक्तं सर्वमभ्यधात् ॥ १८१ ॥
ज्ञात्वा रामः समायातं सानुगं रावणानुजम् ।
विचिन्त्य निश्चलः क्षिप्रं प्रोवाच कपिकुञ्जरान् ।। १८२ ।।
यूयं प्रमाणं कार्येऽस्मिन्धीधना भुजशालिनः ।
विभीषणस्यागमने यदुक्तं तद्विचिन्त्यताम् ॥ १८३ ॥
इत्युक्ता रघुनाथेन केचिदूचुः प्लवंगमाः ।
पापः शत्रुप्रयुक्तोऽयं सर्वथा वधमर्हति ॥ १८ ॥
उवाच त्यत्क्वायं कश्चिद्यदि भ्रातरमागतः ।
तत्परेषां कथं नाम क्रूरः स्निग्धो भविष्यति ॥ १८५ ॥
जात्यैव स्वजने प्रीतिर्जन्तोरव्यभिचारिणी ।
न जातु जम्बुकीपुत्रः स्तनं पिबति गोः कचित् ।। १८६ ॥
ततो जगाद हनुमान्रामं विरचिताञ्जलिः ।
मर्मवेदी परस्यायं न तु त्याज्यो विभीषणः ।। १८७ ॥
विरक्तस्य कुवृत्तस्य रावणस्य प्रमादिनः ।
कोशं दुर्ग बलं राष्ट्र चक्ष्यत्येव न संशयः ॥ १८८ ॥
दुर्वृत्तं स्वजनं त्यक्त्वा यदि साधूनयं श्रितः ।
तदस्य गुणलुब्धस्य न ह्यविश्वासकारणम् ॥ १८९ ॥
स्वभावानुगुणा प्रीतिर्दूरस्थेऽप्यंशुमालिनि ।
समीपस्थेऽपि सलिले न संश्लेपोऽम्बुजन्मनाम् ॥ १९० ॥
इति वायुसुतेनोक्ते निशम्योवाच राघवः ।
सदोषः सगुणो वास्तु न मे त्याज्यो विभीषणः ॥ १९१ ॥
अनुरक्तो विरक्तो वा मामुद्दिश्यायमागतः ।
वन्ध्यं मनोरथं तस्य न कर्तुमहमुत्सहे ॥ १९२ ॥


१. 'प्यस्तु' शा..