पृष्ठम्:रामायणमञ्जरी.pdf/३१७

पुटमेतत् सुपुष्टितम्
३०८
काव्यमाला।


देहकान्तिवितानेन वैडूर्यविमलत्विषा ।
विदधान इवासक्तं सर्वं जलमयं जगत् ।। २३१ ॥
चन्द्रकान्तशलाकेन मुक्ताप्रारम्भशोभिना ।
फेनौघेनोद्गतेनेव स्वच्छश्छत्रेण सच्छविः ॥ २३२ ॥
सप्तास्यैर्दीप्तरत्नाकैर्व्यक्तस्वस्तिकलाञ्छनैः ।
सेवितस्तु महाभागैर्भिगिर्भिर्बद्धमण्डलैः ॥ २३३ ॥
स्फुरत्पीयूपकल्लोलमालाधवलवर्चसा ।
श्रीविहारेण हारेण साट्टहास इवोरसि ॥ २३४ ॥
सोऽब्रवीत्सितदन्तांशुपुष्पिताधरपल्लवः ।
समस्तमौक्तिकच्छायामन्तस्थां दर्शयन्निव ॥ २३५ ॥
भोः काकुत्स्थ न मिथ्यैव विक्रियां गन्तुमर्हसि ।
महाभूतैः सह वयं न मर्यादातिवर्तिनः ॥ २३६ ॥
न कामान्न च संरम्भान्न भयान्न च गौरवात् ।
मर्यादामुत्सहे त्यक्तुं शाश्वते वर्त्मनि स्थितः ।। २३७ ॥
त्वत्तस्तेजस्विनोऽप्यन्ये जलस्थलपथार्थिनः ।
कथमेवंविधैः क्षोभैर्न मे कुर्याः पराभवम् ॥ २३८ ।।
अभीष्टं ते करोम्येष सगरान्वयमानभृत् ।
अचिन्त्यमद्भुतं लोके सागरे स्थलदर्शनम् ॥ २३९ ॥
बद्धं सेतुं द्रुमैः शैलैः स्तम्भिते सलिले मया ।
तरन्तु वानराः क्षिप्रं नास्त्येषां मत्कृतं भयम् ।। २४० ।।
उत्तरे कृमिकूलाख्यो देशः पुण्यतरो मम ।
आभीरैर्दस्युभिर्घिरैरावृतः पापकर्मभिः ॥ २४१ ।।
मदर्थमुद्यतो वाणस्तेषु प्रक्षिप्यतामयम् ।
इत्यम्बुधिगिरा रामचिक्षेप ज्वलितं शरम् ।। २४२ ।।
स देशस्तेन निर्दग्धो मरुकान्तारतां ययौ ।
निर्व्यालो राघववरात्क्षीरौषधिफलाकुलः ॥ २४३ ॥


१. 'कर्नु' शा०.