पृष्ठम्:रामायणमञ्जरी.pdf/३१९

पुटमेतत् सुपुष्टितम्
३१०
काव्यमाला।


अहो वत प्रभावोऽयं राघवस्यातिपौरुषः ।
केन दृष्टं कदा नाम महाब्धौ सेतुबन्धनम् ॥ २५६ ॥
अहो तु पौरुषेणायं रामेणाश्चर्यकारिणा ।
सेतुः सेतुरिवावद्धो दैवाल्लङ्गनकर्मणि ।। २५७ ॥
अयं दिगन्तव्यापी सेतुर्जलधिपारगः ।
यशसा सह रामस्य कल्पस्थायी भविष्यति ॥ २५८ ॥
अहो प्रतापनिधिना रामेणाश्चर्यकारिणा ।
अलङ्घ्यशासनेनायं नदीनाथः स्थिरीकृतः ॥ २५९ ॥
एष मज्जत्ययं मनः स्थितोऽयं न विकम्पते ।
सेतुबन्धे बभूवेति सुराणां व्योम्नि निःस्वनः ॥ २६० ॥
चतुर्दशसु बद्धेषु योजनेषु प्लवंगगैः ।
आश्चर्यदर्शनात्तृप्त इव सूर्योऽस्तमाययौ ॥ २६१ ॥
सा कदा दृश्यते लङ्का सेतुः संपूर्यते कदा ।
कपीनामिति कृच्छ्रेण सोत्कण्ठानां ययौ निशा ॥ २६२ ॥
क्रमेणैवं दिनैः षड्भिर्भूधरैर्वानराहृतैः ।
बबन्ध निश्चलं सेतुं विश्वकर्मसुतो नलः ॥ २६३ ॥
मलयाग्रात्प्रवृत्तं तं लङ्कामूलमुपागतम् ।
दशयोजनविस्तीर्णं शतयोजनमायतम् ॥ २६४ ॥
सेतुं निबद्धमालोक्य सुग्रीवो हर्षनिर्भरः ।
सज्जीकृतवलाम्भोधिः काकुत्स्थाय न्यवेदयत् ॥ २६५ ।।
अथ सुग्रीवसहितः सलक्ष्मणविभीषणः ।
अग्रे प्लवगसैन्यानां धन्वी रामः स्वयं ययौ ॥ २६६ ॥
ततः कोटिसहस्राणां वानराणां तरस्विनाम् ।
प्रययुः सेतुना तेन शङ्कुपद्मयुतानि च ॥ २६७ ॥
असूचीविवरे तस्मिन्त्रजति प्लवगार्णवे ।
अलब्धमार्गाः पयसा नभसापि च ते ययुः॥ २६८ ॥


१. 'मानुपः' शा०. २. 'स्थलीकृतः' शा०. ३. 'नभसा च परे' शा०,