पृष्ठम्:रामायणमञ्जरी.pdf/३२१

पुटमेतत् सुपुष्टितम्
३१२
काव्यमाला।


तानब्रवीत्स विज्ञाय बद्धं सेतुं महार्णवे ।
आश्चर्यामर्षसंरम्भलज्जासंजातविक्रियः ॥ २८१ ॥
अहो न सुखसंसक्तैरवलिप्तैः प्रमादिभिः ।
भवद्भिर्मन्त्रिभिः शत्रुर्वर्धमानोऽप्युपेक्षितः ॥ २८२ ॥
बद्धः सेतुर्महाम्भोधौ पारं प्राप्ताश्च शत्रवः ।
अनुप्तचारैर्युपमाभिर्दोषोऽयं न विचिन्तितः ॥ २८३ ।।
अप्रवृद्धेषु दोषेषु चिकित्सा पूर्वमेव यत् ।
राज्याब्धिकर्णधाराणां मन्त्रिणां मन्त्रितैव सा ॥ २८४ ॥
व्यसनोपहता यूयं यदि कार्यपराङ्मुखाः ।
मन्त्रविक्रमयोरेकस्तदहं स्वयमास्थितः ॥ २८५ ॥
इत्युक्ते राक्षसेन्द्रेण लज्जिते मन्त्रिमण्डले !
उवाच शृणुतामीषामिन्द्रजिद्विजयोर्जितः ॥ २८६ ॥
तात संभावना केयं मिथ्यैवानुचिते जने ।
भवद्भुजानां को नाम बिभर्ति प्रतिमल्लताम् ॥ २८७ ॥
विवासितसुरेन्द्रस्य का चिन्ता मानुषे तव ।
भीरवो भयदाः कस्य वानरा वनचारिणः ॥ २८८ ॥
इत्युक्ते मेघनादेन प्रहस्तप्रमुखास्ततः ।
आविद्धायुधसंभारास्तदेवोचुः पुनः पुनः ॥ २८९ ॥
अथातिकायो मेधावी पुनः प्रोवाच रावणम् ।
राजन्राज्ञां स्वधर्मेण वर्तनं व्यसनौषधम् ॥ २९० ॥
प्रजानां यत्परित्राण दस्यूनां यत्प्रमार्जनम् ।
स राज्ञां परमो मन्त्रः शेषः स्वैरकथारसः ॥ २९१ ॥
परार्थे परदारेषु न येषां धीः प्रवर्तते ।
तेषां पवित्रयशसां कलत्रं सर्वसंपदः ॥ २९२ ॥
जात्या रामो न नः शत्रुर्न चासौ भूम्यनन्तरः ।
सीतापहारकोपोऽस्य तत्प्रदानेन शाम्यति ॥ २९३ ।।


१. 'नुविरज्यते' क०. २. 'संबाधा' शा. ३. 'शत्रु' शा०.