पृष्ठम्:रामायणमञ्जरी.pdf/३२६

पुटमेतत् सुपुष्टितम्
३१७
रामायणमञ्जरी।


अत्रान्तरे समुद्रान्तः प्रविश्याकुललोचनः ।
बलाध्यक्षोऽथ स द्वास्थः संज्ञयास्सै न्यवेदयत् ॥ ३४५ ।।
इति मायाशिरोदर्शनम् ॥ ९॥
ततः प्रयाते पौलस्त्ये संज्ञामासाद्य जानकी ।
शुशोच साश्रुनयना प्राणत्यागकृतक्षणा ॥ ३४६ ।।
आर्यपुत्र कथं राम संकल्पानल्पपल्लवा ।
आशालतेयं नि ना फलकाले मम त्वया ।। ३४७ ॥
गन्तुमभ्यर्थितस्याद्य जीवितस्यायमञ्जलिः।
येन व्यवहितं पत्युर्न पश्यामि मुखाम्बुजम् ॥ ३४८ ॥
उत्तीर्णाब्धि समासाद्य लङ्कां राक्षससंकुलाम् ।
ईप्सितं न त्वया प्राप्तं मम भाग्यविपर्ययात् ॥ ३४९ ।।
आरुह्य मेरुशिखरं पतिताहमधोमुखी ।
प्राप्तोऽपि निकटं यस्याः प्रयातस्तव दर्शनम् ।। ३५० ।।
इयती भूमिमभ्येत्य कृत्वा कर्म सुदुष्करम् ।
असंदर्य मुखाम्भोजं कथं नाथ गतोऽसि मे ॥ ३५१ ।।
प्रिय क्षणं प्रतीक्षस्व प्रियां भार्यामनागसम् ।
परित्यज्य न गच्छन्ति सत्यशीला भवद्विधाः ॥ ३५२ ।।
इति प्रलापिनी वालां निममां शोकसागरे ।
निराशां दर्शने पत्युर्वद्धाशां जीवितक्षये ॥ ३५३ ।।
उवाच सरमा नाम राक्षसी प्रीतिवत्सला ।
तद्दुःखानलसंप्राप्ततीवसंतापवेदना ॥ ३५४ ॥
अयि मुग्धे न जानासि दशग्रीवस्य वक्रताम् ।
मायाविलसितैस्तैस्तैर्दुःखं ते विदधाति यः ।। ३५५ ।।
अपि भर्तुः प्रभावज्ञा कथं मिथ्या विमूर्छसि ।
स्वभावसुलभा सत्यं स्त्रीणामत्यन्तभीरुता ॥ ३५६ ॥


१. 'संक्रान्त' शा०.