पृष्ठम्:रामायणमञ्जरी.pdf/३३

पुटमेतत् सुपुष्टितम्
२४
काव्यमाला।

अथो धन्वन्तरिर्जातः सुधापूर्णकमण्डलुः ।
सर्वौषधिगणैः कान्तैः सिद्धिदो भिषजां वरः ॥ २८० ॥
ततोऽभूदुत्कटाटोपः कलाकूटः समुत्प्लवः ।
अतीवायासितस्येव कोपस्तीक्ष्णो महोदधेः ॥ २८१ ॥
अमृतार्थे बभूवोग्रः संग्रामस्त्रिदिवौकसाम् ।
दैत्यानां च चिरं सर्वलोकक्षयपरिश्रमः ॥ २८२ ।।
शतक्रतुस्ततः प्राप्य निहताशेषदानवः ।
सुधां राज्ये स्थितः प्राप विजयव्यञ्जनं यशः ॥ २८३ ॥
हतपुत्रा दितिर्दुःखाद्भर्तारं कश्यपं सती ।
शक्रहन्तारमिच्छामि पुत्रमित्यब्रवीत्क्रुधा ।। २८४ ॥
तामुवाच कृपाविष्टः कश्यपः शास्त्रलोचनाम् ।
तनयं शक्रहन्तारं वलज्येष्ठं त्वमाप्स्यसि ।। २८५ ॥
अत्यन्तशुचियुक्ता चेद्गर्भे वार्षसहस्रके।
इति तच्छासनं प्राप्य गर्भ च प्रयता दितिः ॥ २८६ ।।
तपश्चचार सुचिरं वीरासुरजिगीषया ।
छलप्रेक्षी बभूवास्याः परिचर्यापरः सदा ॥ २८७॥
समित्कुशाग्निकुसुमाहारी तत्र शतक्रतुः ।
ततो वर्षसहस्रान्ते कृत्वा पादपदे शिरः ॥ २८८ ॥
निद्रां विमोहिता भेजे दितिः पुण्यैर्मरुत्पतेः
गर्भे प्रविश्य शक्रोऽपि चक्रे वज्रेण सप्तधा ॥ २८९ ॥
प्रबुद्धां रोदनेनास्य दितिं ज्ञात्वा सुराधिपः ।
मा रोदीरिति तं गर्भ वदन्पुनरदारयत् ॥ २९० ॥
ततः प्रभृति शक्रोऽभूद्विश्रुतः पाकशासनः ।
स निर्गत्य दितिं दीनां प्रसाद्य मुदितोऽभवत् ॥ २९१ ॥
तं सप्तधाकृतं वालं वातस्कन्धेषु सप्तसु ।
विदधेऽधिपतिं शक्रो दितेः प्रणयशासनात् ॥ २९२ ॥


१. "विभुः' ग.