पृष्ठम्:रामायणमञ्जरी.pdf/३४

पुटमेतत् सुपुष्टितम्
२५
रामायणमञ्जरी।

मा रोदीरिति शक्रोक्त्या मरुतस्ते महौजसः ।
बभूव त्रितयो येषां विद्युद्वायुरिति श्रुतः ॥ २९३ ॥
विशालस्तत्सुतो राजा यस्येयं विपुला पुरी।
इहाद्य सुमतिर्नाम विशालकुलजो नृपः ॥ २९४ ॥
इति मरुदुत्पत्तिः ॥ ८॥
इत्युक्तं मुनिना श्रुत्वा व्रजन्रामः सलक्ष्मणः ।
संपूजितः सुमतिना ददर्श विपुलं वनम् ॥ २९५ ॥
पुराणैरङ्कितं दृष्ट्वा तत्तपोवनलक्षणैः ।
विश्वामित्रं स पप्रच्छ मुनिं विस्मितमानसः ॥ २९६ ॥
शून्योऽपि रुचिरः कोऽयं दरिद्रो गुणवानिव ।
देशस्तपोवनप्रायस्तपस्विजनवर्जितः ॥ २९७ ॥
राघवेनेति विनयात्पृष्टः प्रोवाच कौशिकः ।
अत्राभवत्पुरा राम गौतमस्याश्रमो मुनेः ॥ २९८ ॥
अहल्या नाम तस्यासीत्तपःश्रीरिव रूपिणी ।
भार्या नवाभिलाषस्य पदं सुरपतेरपि ॥ २९९ ॥
तां भर्त्रा रहितां दृष्ट्वा कदाचित्पाकशासनः ।
रतियाच्ञाप्रणयितो ययौ गौतमरूपभृत् ।। ३०० ॥
शक्रोऽयमित्यविज्ञाय तमहल्या कुतूहलात् ।
चक्रे संपूर्णसंकल्पं तं सौभाग्यवशीकृतम् ॥ ३०१ ॥
शीलांशुकापहरणप्रगल्भानिलविभ्रमम् ।
अभिलाषलताबीजं ललनानां कुतूहलम् ॥ ३०२ ॥
गौतमोऽथ समभ्येत्य शक्रं स्वसदृशं पुनः ।
ददर्श तूर्ण गच्छन्तं लज्जाविलुलितैः पदैः ॥ ३०३ ॥


१. 'विश्वग्वायुः' ग-पुस्तके शोधितपाठः; 'दिव्यवायुः' इति रामायणे. २. 'इक्ष्वा-

कोस्तु नरव्याघ्र पुत्रः परमधार्मिकः । अलम्बुषायामुत्पन्नो विशाल इति विश्रुतः ॥ इति रामायणदर्शनेन पाठोऽत्र त्रुटितः प्रतीयते. ३ 'प्रतिपन्नाम' ग. ४. 'भाजनं वाग. ५. 'तो' ग. ६. "मिति' ग. ४