पृष्ठम्:रामायणमञ्जरी.pdf/३४१

पुटमेतत् सुपुष्टितम्
३३२
काव्यमाला।


श्वेतं गजं चतुर्दन्तं चामरच्छत्रलाञ्छनम् ।
अहो मुहूर्तमालोक्य पतितोऽहमधोमुखः ॥ ५३१ ॥
दुराचारो गजस्त्यक्तः काकुत्स्थोऽप्याश्रितः कृती।
कृतं कृत्यं मया साधु विधिसिद्धिषु कः प्रभुः ॥ ५३२ ।।
अहो वेश्येव निःस्नेहा वक्रा दुर्जनधीरिव ।
सर्वथा खलमैत्रीव दुरन्ता वेधसो गतिः ॥ ५३३ ॥
नमः सुघटितारम्भविनाशप्रभविष्णवे ।
विधेये पौरुषोत्कर्षस्पर्शमात्रासहिष्णवे ॥ ५३४ ॥
इति शोकाकुलः शोचन्साश्रुनेत्रो विभीषणः ।
पस्पर्श सलिलार्द्रेण पाणिना राघवो मुहुः ॥ ५३५ ॥
तं जगादाथ सुग्रीवः सखे दुःखसमुद्भवः ।
त्यज्यतामेष वैक्लव्यसंकल्पे स्त्रीजनोचितः ।। ५३६ ॥
तव स्वच्छनखच्छायारचितोष्णीषविभ्रमः ।
अभिषेकोत्सवं मौलौ रामपाणिर्विधास्यति ॥ ५३७ ।।
सानुजं राममादाय सुषेणेन सहाङ्गदः ।
किष्किन्धा यातु सन्नद्धः सह सर्वैः प्लवङ्गमैः ॥ ५३८ ॥
अहमेको हनुमता सह लङ्कामराक्षसाम् ।
कृत्वा सीतां समादाय पश्चादेष्यामि राघवौ ॥ ५३९ ॥
सौहार्दस्य प्रसादस्य प्रणयस्य प्रियस्य च ।
राज्यदानस्य चानर्ण्यं गच्छाम्यद्य न संशयः ॥ ५४० ॥
अस्य स्फीतयशस्वच्छच्छन्नस्य व्यजनस्य च ।
हरिचन्दनकर्पूरपरिरम्भस्य भूयसः ।। ५४१ ।।
मणिकङ्कणकेयूरमौलिहारभरस्य च ।
अनङ्गमङ्गलासङ्गललनालिङ्गनस्य च ॥ ५४२ ॥
माल्यांशुकमकारस्य संभोगस्य गरीयसः ।
इमौ मे सदृशं बाहू सुहृत्कार्यं करिष्यतः ॥ ५४३ ॥