पृष्ठम्:रामायणमञ्जरी.pdf/३४२

पुटमेतत् सुपुष्टितम्
३३३
रामायणमञ्जरी।


राममानप्रसादस्य शक्या तस्य प्रतिक्रिया ।
त्यक्तैः पुनः पुनर्जातैर्न शरीरशतैरपि ॥ ५४४ ॥
यदि देवासुरैः सार्धं योत्स्यते मां दशाननः ।
तथापि तस्य कुपिते मयि नास्त्येव जीवितम् ।। ५४५ ॥
इत्युक्ते वानरेन्द्रेण सुषेणः कपियूथपः ।
उवाच धृतिमालम्ब्य चिन्तयन्दुःखभेषजम् ॥ ५४६ ॥
देवासुररणे पूर्वमसुरैर्निहताः सुराः ।
मन्त्रौषगणैः प्रापुर्जीवितं गुरुणार्पितैः ।। ५४७ ।।
क्षीरोदधौ पर्वतयोरन्तरे द्रोणचन्द्रयोः ।
ताः सन्त्यौषधयो यत्र बभूवामृतमन्थनम् ।। ५४८ ॥
श्वच्छवीकरणी दिव्या विशल्या जीवनी तथा ।
संधिनी चेति तास्तूर्णं हरन्तु हनुमन्मुखाः ॥ ५४९ ॥
सुषेणेनेत्यभिहते चिन्तास्तब्धे बलार्णवे ।
अवतीर्याम्बराद्दिव्यद्युतिरभ्याययौ मुनिः ।। ५५० ॥
इति सुग्रीववाक्यम् ॥ १८ ॥
स समासाद्य काकुत्स्थं भगवान्नारदः स्वयम् ।
स्वैरं जगाद जनता हिताय सततं यतः ॥ ५५१ ॥
रामरामाविरामस्त्वं युद्धे त्रिदशविद्विषाम् ।
देवो नारायणः श्रीमान्परमात्मा सनातनः ॥ ५५२ ।।
भगवन्भुवनारम्भव्यापारेषु प्रजासृजः ।
त्वदनुप्राणिता शक्तिः संहारेषु हरस्य च ।। ५५३ ।।
हिरण्याख्यवधे व्यस्ता वराहेण वराहवे ।
त्वया वसुंधरोद्धारधीरेण धरणीधराः ॥ ५५४ ॥
त्वया दैत्या द्विपेन्द्रस्य लीलाकेसरिणा नखैः ।
यशांसि मौक्तिकानीव लुण्ठितानि सहासुभिः ।। ५५५ ।।
त्रैलोक्याक्रान्तिविभवः प्रययौ बलिसंयमे ।
ब्रह्माण्डमण्डपे दण्डपादस्थे मानदण्डताम् ।। ५५६ ॥