पृष्ठम्:रामायणमञ्जरी.pdf/३४८

पुटमेतत् सुपुष्टितम्
३३९
रामायणमञ्जरी ।


महानादं जघानाथ शिलया बुधि जाम्बवान् ।
तरुणस्तरुणाचारश्चक्रे कुम्भहनूं व्यसुम् ॥ ६१९ ॥
हतेषु तेषु वीरेषु प्रहस्तो हस्तिदुर्मदः ।
निबिडालोडनक्रीडां शत्रुसैन्यह्रदे व्यधात् ॥ ६२० ।।
तस्मिन्गजगणैर्बाणाधारोद्धरणदुर्दिनैः ।
ससर्प शोणितनदी शरीरतरुहारिणी ।। ६२१ ॥
प्रहस्तप्रहतां दृष्ट्वा वानराणामनीकिनीम् ।
तमभ्यधावद्वेगेन नीलः सेनासुनायकः ।। ६२२ ॥
तयोः सन्नद्धयोर्युद्धे त्रैलोक्यत्रासकारिणि ।
क्षणं प्रेक्षकतां प्रापुः प्रेक्षिकाः कपिराक्षसाः ॥ ६२३ ॥
नीलेनाभिहतः कोपात्पृथुः स्कन्देन शालिना ।
प्रहस्तः शरजालेन निनाय तमदृश्यताम् ॥ ६२४ ॥
तं शरासारमत्युग्रं नीलो मीलितलोचनः ।
जग्राहाभिनवं वर्षघर्मान्त इव कुञ्जरः ॥ ६२५ ।।
ततस्तरुप्रहारेण प्रहस्तस्य मनोजवान् ।
जधान नीलसंनाहान्नीलः क्षिप्रं तुरङ्गमान् ।। ६२६ ॥
हताश्वः सोऽभिपत्याशु मुसलेन प्लवङ्गमम् ।
निजघान ललाटाग्रे तं वृक्षेण स चोरसि ॥ ६२७ ।।
उद्भ्रान्तमुसलं रक्षः साक्षात्कालमिवोद्यतम् ।
नीलः शिलां समुत्क्षिप्य चक्रे स्फुरितमस्तकम् ।। ६२८ ।।
भग्नोत्तमाङ्गे सावेगं प्रहस्ते पतिते युधि ।
रक्षसां नाभवत्कश्चिद्भग्नसंस्तम्भनं विभुः ।। ६२९ ॥
इति प्रहस्तवधः ।। २३ ॥
सेनानाथे हते तस्मिन्रणयज्ञे हुतात्मनि ।
समं समस्तसामन्तैर्निर्ययौ रावणः स्वयम् ॥ ६३० ।।
ततः प्रलयसंरम्भभैरवाम्भोधरध्वनिः।
रुराव रावणस्याग्रे प्रथमारम्भदुन्दुभिः ॥ ६३१ ।।