पृष्ठम्:रामायणमञ्जरी.pdf/३५

पुटमेतत् सुपुष्टितम्
२६
काव्यमाला।

लज्जालतापरशुतां यशःशीतांशुमेघताम् ।
मोहश्यामातिमिरतां(१) यातः कस्य न मन्मथः ॥ ३०४ ॥
ततः शक्रस्य सहसा मुनिशापाभिभाषणात् ।
पेततुर्दुनयावस्थासुहृदौ वृषणौ भुवि ॥ ३०५ ॥
गौतमोऽथ समभ्येत्य शीलरत्नविनाकृताम् ।
अहल्यामशपत्कोपाद्भुजङ्गीभावदूषिताम् ॥ ३०६ ॥
चिरमस्मिन्निरालम्बा कानने भस्मशायिनी ।
अदृश्या प्राप्स्यसि शुचं रामसंदर्शनावधि ॥ ३०७ ॥
इत्युक्त्वा गौतमः प्रायादपरं तपसे वनम् ।
सुरेन्द्रो मेषवृषणो मेषादाकृष्य चाभवत् ॥ ३०८ ।।
शापात्संतारयैनां त्वमहल्यां रघुनन्दन ।
चिरगूढपरिक्लेशविनाशः सत्समागमः ॥ ३०९ ॥
कौशिकेनेति कथिते रामोऽभ्येत्य सलक्ष्मणः ।
ददर्श सर्वभूतानामदृश्यां गौतमाङ्गनाम् ॥ ३१० ॥
नीहारजालसंछन्नां कलामिव निशापतेः।
विद्यामिव निरीभासामपि नान्तरविस्मिताम् ॥ ३११ ॥
सा दृष्ट्वा राघवौ प्रीता प्रणामानतशेखरौ ।
लेभे चिन्तानलच्छेदसुचिरोच्छ्वासनिर्वृतिम् ॥ ३१२ ॥
तावभ्यर्च्य गताशङ्का त्यक्तशापा मुनेर्वधूः ।
बभौ कुसुमवर्षेण च्छाद्यमाना सुरैर्दिवि ॥ ३१३ ।।
इत्यहल्याशापमुक्तिः ॥९॥
ततो जनकराजस्य मिथिलां पृथुलश्रियम् ।
ते प्रविश्य मखक्षेत्रं ददृशुर्मुनिसेवितम् ॥ ३१४ ॥
मुनीनां दीप्ततपसां राज्ञां च भुजशालिनाम् ।
ब्रह्मक्षेत्रमयी काचित्तत्र लक्ष्मीरदृश्यत ॥ ३१५ ॥


१. 'पि' ग.

२. "निराभ्यासां' ग.