पृष्ठम्:रामायणमञ्जरी.pdf/३६

पुटमेतत् सुपुष्टितम्
२७
रामायणमञ्जरी।

फुल्लद्मपलाशाक्षौ धन्विनौ रघुनन्दनौ ।
जनः किरीटिनौ वीक्ष्य ययौ विस्मयवश्यताम् ॥ ३१६ ॥
विलोक्य जनसंबाधं मखस्य महतीं श्रियम् ।
एकान्ते कौशिकमुनिः स्थितिं चक्रे स राघवः ॥ ३१७ ॥
विश्वामित्रं स्वयं प्राप्तं ज्ञात्वा जनकभूपतिः ।
प्रत्युद्ययौ पुरस्कृत्य शतानन्दं पुरोहितम् ॥ ३१८ ॥
स पूजयित्वा विधिवन्मुनि मान्यं मनीषिणाम् ।
धन्यताभरणां प्रीतिमवाप बहुमानतः ॥ ३१९ ॥
अनामयं मुनिः पृष्टा तमूचे विनयानतम् ।
अहो विराजसे राजन्सदाचारविभूषणः ।। ३२० ॥
यज्ञदानोपकाराणां संपत्सूते यशस्तव ।
पुण्यं त्रिभुवनस्यापि शुभ्रं गाङ्गमिवोदकम् ॥ ३२१ ॥
अच्छिन्नदानाभरणः सदा धर्मफलोदयः ।
महात्मनां भवन्त्येव पुण्याः पुण्यविभूतयः ॥ ३२२ ॥
अहो बत विदग्धेन भवता समुपार्जितम् ।
कान्ताकटाक्षचटुलैरक्षयं विभवैर्यशः ॥ ३२३ ॥
इति ब्रुवाणं जनकः कौशिकं तमभाषत ।
दन्तांशुभिर्मुखासक्तं सत्यं संदर्शयन्निव ।। ३२४ ॥
भगवन्यज्ञसंभारो विभवाडम्बरः परम् ।
सर्वयज्ञफलप्राप्तिः पवित्रं तव दर्शनम् ॥ ३२५ ॥
मनोरथावतीर्णोऽपि धन्यतामादधाति यः।
स साधुसंगमः कस्य न प्रियः कुशलोदयः ॥ ३२६ ॥
कस्येमौ धीरगम्भीरव्यञ्जनोजितमानसौ ।
विक्रान्तलक्षणाकारौ सुकुमारौ कुमारकौ ॥ ३२७ ॥
किमप्युत्सित्ततामेति दर्शनेनानयोर्मनः ।
ययोविजयवृत्तान्तं शंसतीव भुजद्वयम् ॥ ३२८ ।।


१. 'पुण्यमर्जितम्' ग.