पृष्ठम्:रामायणमञ्जरी.pdf/३६०

पुटमेतत् सुपुष्टितम्
३५९
रामायणमञ्जरी।


वीरव्रतपरिभ्रष्टं श्रुतं तव मया वचः ।
आयासितोऽसि मिथ्यैव भजस्व शयनं पुनः ॥ ७७३ ॥
कथं वृद्ध इवाचार्यः पुनरुक्तानुशासनैः ।
श्रुतिशूलैः करोषि त्वं व्यथां शुक्तैरिवौषधैः ।। ७७४ ॥
निर्दया किमतिकान्ते यत्कृतं साध्वसाधु वा ।
प्रतिक्रिया हि दोषस्य वर्तमानस्य चिन्त्यते ॥ ७७५ ॥
विचारावसरस्तावद्यावन्न स्फुरितं शरैः ।
रक्तक्षीबेषु स्वङ्गेषु मन्त्रचिन्तासु कः प्रभुः ।। ७७६ ।।
श्रीरक्षणक्षमस्यायमुपदेशस्य न क्षणः ।
रजन्यां नेत्रसर्वस्वं दिवा दीपो निरर्थकः ॥ ७७७ ॥
प्रमादाद्योऽयमस्माभिः सुमार्गों विषमीकृतः ।
त्वत्प्रभावसमीभूतः स भवत्वद्भुतोदयः ।। ७७८ ॥
इति प्रौढप्रकोपस्य भ्रातुराकर्ण्य शासनम् ।
कुम्भकर्णोऽभ्यधारिक्षप्रं वैलक्ष्यविनताननः ॥ ७७९ ।।
आर्य संत्यज्यतामेष शत्रुचिन्ताकृतो ज्वरः ।
त्वद्भूभङ्ग इवात्युग्रः सज्जोऽहं विश्वसंक्षये ॥ ७८० ॥
अवश्यं तु हितं वाच्यं यदुक्तोऽसि मया प्रभो ।
त्रिजगत्क्षयदीक्षासु वयमभ्यधिकादराः ।। ७८१ ॥
अधुना मद्भुजस्तम्भन्यस्तशत्रुपरिक्षयः ।
कान्ताप्रसादनव्यग्रश्चिरं विचर निर्वृतः ।। ७८२ ॥
अवानरमसुग्रीवमलक्ष्मणमराघवम् ।
अद्य लोकं करोम्येष त्वच्छासनपरो रणे ॥ ७८३ ।।
एक एवाध गत्वाहमितो निजभुजायुधः ।
क्षपयामि परानीकं सर्वे तिष्ठन्तु राक्षसाः ॥ ७८४ ॥
सोत्सेकं कुम्भकर्णस्य वचः श्रुत्वा महोदरः ।
उवाच रावणाग्रेऽपि प्रगल्भः कार्यगौरवात् ।। ७८५ ।।