पृष्ठम्:रामायणमञ्जरी.pdf/३६४

पुटमेतत् सुपुष्टितम्
३५५
रामायणमञ्जरी।


व्यथिते मारुतसुते विद्रुते वानरार्णवे ।
शैलं नीलश्च चिक्षेप विक्षिप्तपृथुपादपम् ॥ ८२५ ।।
स कुम्भकर्णमुष्ट्यग्रताडितो धरणीधरः ।
निपपात नवैश्वर्यमदोद्धत इवाधमः ॥ ८२६ ॥
शरभर्षभमुख्यान्स पाणिभ्यां प्रक्षिपन्मुखे ।
निगीर्यालग्नदन्ताग्रस्तृप्तिं न प्राप राक्षसः ॥ ८२७ ।।
भक्ष्यमाणेषु सैन्येषु सदैन्येषु महत्स्वपि ।
राघवं शरणं जग्मुर्भयार्ताः कपियूथपाः ।। ८२८ ॥
ततः क्रोधोद्धतगतिः कुम्भकर्ण महाभुजः ।
जघानाभ्येत्य सुग्रीवश्चैत्यवृक्षेण वक्षसि ।। ८२९ ।।
स तेनाभिहतः क्रोधाद्विहस्य विकटाननः ।
सुग्रीवायासृजद्धोरं शूलं शूलकरं द्विपाम् ।। ८३० ।।
शूलं सहाराणां निर्मितं वहिपिङ्गलम् ।
पाणिभ्यां जानुसंध्यग्रे बभञ्ज प्लवगेश्वरः ॥ ८३१ ।।
शूलभङ्गात्प्रकुपितः कुम्भकर्णो ज्यलन्निव ।
गिरिशृङ्गेण महता निजधान हरीश्वरम् ॥ ८३२ ॥
तं शैलवेगाभिहतं मूर्छितं पतितं भुवि ।
आदाय प्रययौ लङ्कां प्रहृष्टो रावणानुजः ॥ ८३३ ॥
तं प्रयान्तं समालोक्य स्तूयमानं निशाचरैः ।
दुःखावमानक्रोधान्तः प्रध्यौ पचनात्मनः ॥ ८३४ ॥
अहो गृहीतः सुग्रीवो विसंज्ञः शत्रुणा रणे ।
धिगस्मान्सचिचानस्य मिथ्यावलभुजोनितान् ॥ ८३५ ।।
एप मुष्टिप्रहारेण हत्वाहं क्षणदाचरम् ।
करोमि गुरुसंमानगुरुभारावरोपणम् ।। ८३६ ।।
अथवा लब्धसंज्ञोऽथ करोत्येप भुजोर्जितम् ।
मोक्षितोऽहं परेणेति लज्जां न सहते ध्रुवम् ॥ ८३७ ।।


१. 'धातः काख.