पृष्ठम्:रामायणमञ्जरी.pdf/३६५

पुटमेतत् सुपुष्टितम्
३५६
काव्यमाला।


तस्मान्नास्योत्सहे कर्तुं यशः शीतांशुमेघताम् ।
करोमि तावत्सैन्यानां भग्नानां विनिवर्तनम् ॥ ८३८ ॥
इति चिन्ताकुले दोलालोलचित्ते हनूमति ।
सुग्रीवः शनकैः संज्ञा सुप्तोत्थित इवाप्तवान् ॥ ८३९ ।।
स विधूय वपुर्वेगादुत्पत्योदग्रविक्रमः ।
चकर्त कुम्भकर्णस्य कुपितः कर्णनासिके ॥ ८४० ॥
स कृत्तनासाश्रवणः स्रवद्रुधिरनिर्झरः ।
भृशं विदारितः पार्थे निप्पिपेष क्षितौ कपिम् ।। ८४१ ॥
स निष्पिष्टो बलवता राक्षसेन कपीश्वरः ।
खमुत्पत्य ययौ तूर्णं यत्र रामः सलक्ष्मणः ॥ ८४२ ॥
ततः पुनः समभ्येत्य कुम्भकर्णो रणाङ्गणे ।
चकार कदनं घोरं वानराणां तरस्विनाम् ॥ ८४३ ॥
वसारुधिरसिक्ताङ्गो मत्तः कोपेन चाकुलः ।
वानरैः सह चिक्षेप स वक्रे राक्षसानपि ॥ ८४४ ॥
तं दृष्ट्वा त्यक्तमर्यादं स्वपरग्रामघस्मरम् ।
वस्तानि सर्वभूतानि कालोऽयमिति मेनिरे ।। ८४५ ।।
भक्ष्यमाणेषु सर्वेषु तेन स्वेषु परेषु च ।
तद्वक्त्रश्वभ्रविभ्रष्टा ससर्प रुधिरापगा ॥ ८४६ ॥
ववृधे विपुलोत्सेधं तस्याधिकतरं वपुः ।
यत्नेनाध्यमानस्य दौर्जन्यमिव दुर्मतेः ॥ ८४७ ।।
प्रभन्नेषु प्लवङ्गेषु क्षपितेषु च रक्षसा ।
अम्याद्रवत्तमाकृष्य चापं रामः सलक्ष्मणः ॥ ८४८॥
तं शोणिताक्तसङ्गिं प्रदीप्तमुकुटाङ्गदम् ।
वर्जितं कपिरक्षोभिर्जगाद रघुनन्दनः ।। ८४९ ।।
अहो वतासि मोहेन महता क्षणदाचर ।
स्वान्परांश्च न जानीषे प्राप्तैश्वर्य इवाधमः ॥ ८५०॥


१. 'गन्तुं' शा..