पृष्ठम्:रामायणमञ्जरी.pdf/३६७

पुटमेतत् सुपुष्टितम्
३५८
काव्यमाला॥


लक्ष्मणेनेत्यभिहिते गवाक्षकुमुदाङ्गदाः ।
जाम्बवद्गजनीलाद्यास्ते समारुरुहुर्जवात् ॥ ८६४ ।।
तानारूढान्प्रयत्नेन नवबद्ध इव द्विपः ।
विधूय गात्रं बलवान्दिक्षु चिक्षेप राक्षसः ॥ ८६५ ॥
ततः प्रभञ्जनास्त्रेण रामस्तस्य समुद्गरम् ।
भुजं चिक्षेप सावेगपातनिप्पिष्टवानरम् ॥ ८६६ ॥
कृत्तवामभुजः सोऽथ वृक्षमुद्यम्य राक्षसः ।
क्रुद्धोऽभ्यधावत्काकुत्स्थं नादेनाघट्टयन्दिशः ॥ ८६७ ॥
भुजं ससालं तमपि स्फाराजगरभीषणम् ।
ऐन्द्रेणारेण चिच्छेद रामस्तस्याद्रिगौरवम् ।। ८६८॥
महता पतता तेन दोपणा निप्पिष्टविग्रहाः ।
प्रलयं प्रययुर्गाढं संश्लिष्टाः कपिराक्षसाः ॥ ८६९ ॥
ततश्छिन्नभुजस्यास्य रक्तनिर्झरवर्षिणः ।
चरणावर्धचन्द्राभ्यां चिच्छेद रघुनन्दनः ॥ ८७० ।।
स कृत्तबाहुचरणः पातालविकृताननः ।
राममभ्याद्रबद्धोरः सूर्यं राहुरिवाकुलः ॥ ८७१ ॥
हेमपुङ्खैर्मुखं तस्य शरैः शिखरिदारणैः ।
अपूरयन्मुहूर्तेन राघवो लाघवोर्जितः ॥ ८७२।।
शक्रदत्तं शरं चास्सै चिक्षेपाशु क्षयंकरम् ।
यत्तस्य विपुलं वक्षो भित्त्वा भूतलमाविशत् ।। ८७३ ।।
ततः प्रचण्डमार्तण्डमण्डलाम्राज्यतेजसः ।
रामः शिरः शरेणास्य चिक्षेप शिखरोपमम् ॥ ८७४ ।।
तस्मिन्निपतिते वेगात्स्फारे शिरसि रक्षसः ।
पेतुश्चर्णीकृता लङ्काप्राकाराट्टालमेखलाः ॥ ८७५ ॥
काये निपतिते तस्य पिष्टे प्लवगमण्डले ।
दिक्षु सूर्यप्रकाशानामवकाशश्चिरादभूत् ॥ ८७६ ।।