पृष्ठम्:रामायणमञ्जरी.pdf/३७

पुटमेतत् सुपुष्टितम्
२८
काव्यमाला ।

सादरं जनकेनेति पृष्टः प्रोवाच कौशिकः ।
राज्ञो दशरथस्यैतौ सुतौ सुकृतशालिनः ॥ ३२९ ॥
शिशू लोकपरित्राणपवित्रचरिताकृती ।
गुणानां धाम रामोऽयं लक्ष्मणश्चास्य चानुजः ॥ ३३० ॥
अस्य मन्मखरक्षायै राक्षसक्षयकारिणः ।
वाता पुष्पोज्ज्वला कीर्तिर्लोककर्णावतंसताम् ॥ ३३१ ॥
महावंशभवं वीरं त्वामिवैष गुणोचितम् ।
आयातस्त्वत्क्रतौ द्रष्टुं धनुर्धीरं पिनाकिनः ॥ ३३२ ॥
इत्युक्तं मुनिना श्रुत्वा जगाद जनकः पुनः ।
धन्योऽहं यस्य मे रामः सभायातः स्वयं गृहम् ॥ ३३३ ।।
पूज्यः समस्तया लक्ष्म्या ममायं रघुनन्दनः ।
अब्धेरिव गृहायातः प्रणयात्पुरुषोत्तमः ॥ ३३४ ॥
इत्युक्ते मिथिलानाथः पूजयन्राघवौ मुदा ।
समागमं मुनीन्द्रेण प्रशशंस पुनः पुनः ॥ ३३५ ॥
विश्वामित्रगिरा ज्ञात्वा शापाद्रामेण मोक्षिताम् ।
अहल्यां जननीं प्रीतः शतानन्दोऽवदन्मुनिः ॥ ३३६ ॥
धन्यो दशरथः श्रीमान्राजा पूर्णमनोरथः ।
यस्य त्वं तनयो राम पुण्यकल्पतरोः फलम् ॥ ३३७ ।।
विश्वामित्रमखत्राणपवित्रेण महीयसा ।
यशसा तव शुभ्रेण भान्ति स्तवकिता दिशः ॥ ३३८ ॥
त्रैलोक्यविजयोदारा कियती तस्य शक्रता ।
श्रेयःस्ववहितः साक्षाद्भगवान्यस्य कौशिकः ॥ ३३९ ॥
कुशसूनोः कुशाख्यस्य पौत्रोऽयं गाधिनन्दनः ।
विश्वामित्रः शशासोर्वौ पुरा सप्ताब्धिमेखलाम् ।। ३४० ॥


१. 'पूर्णपुण्यतरोः' ग. २. 'कुशस्य पुत्रो बलवान्कुशनाभः सुधार्मिकः । कुशनाभ-

सुतस्त्वासीद्गाधिरित्येव विश्रुतः ॥' इति रामायणसंबादेनोत्तरपदलोपोऽवगन्तव्यः,