पृष्ठम्:रामायणमञ्जरी.pdf/३७५

पुटमेतत् सुपुष्टितम्
३६६
काव्यमाला।


निहते वानरानीके शरैराच्छादिताकृतिः ।
जगाद लक्ष्मणं रामः शस्त्रवृष्टिविदारितम् ॥ ९६५ ॥
पश्य शक्रजितो युद्धं ब्रह्मास्त्रेण प्रमाथिना ।
निरुद्धे भुवनालोके ककुभः संहृता इव ॥ ९६६ ॥
अहो बत ममानेन सैन्यं निर्दलितं क्षणात् ।
पक्वं क्षेत्रमिवाकाले मेघनाशनिवर्षिणा ॥ ९६७ ॥
निःसंचारा दिशः सर्वा अदृश्या व्योम्नि राक्षसाः ।
ब्रह्मास्त्रमप्रतिहतं नात्र विद्मः प्रतिक्रियाम् ॥ ९६८ ।।
इति ब्रुवाणः प्रसभं रामः शस्त्रास्त्रसंचयैः ।
विदारितः स सौमित्रिनिश्चेष्टः समपद्यत ॥ ९६९ ॥
कृत्वा तदद्भुतं युद्धं शक्रजिद्विजयोर्जितः ।
प्रविश्य लकां विदधे हर्षमानोत्सव(?) पितुः ॥ ९७० ॥
इतीन्द्रजिद्युद्धम् ॥ ३३ ॥
घोरे तस्मिन्निरालोके निःशब्दे यामिनीमुखे ।
कपिसैन्ये निपतिते प्रसुप्त इव भूतले ॥ ९७१ ॥
एको विभीपणस्तत्र धीरः सह हनूमता ।
संचचार हतान्द्रष्टुं प्रज्वाल्योल्कां शराकुलः ।। ९७२ ।।
सुग्रीवादमुख्यानां प्लवगानां प्रहारिणाम् ।
सप्त संनिहताः कोट्यः कपीनां तत्र राक्षसैः ॥ ९७३ ॥
तान्दृष्ट्वा निहतान्वीरौ वायुपुत्रविभीषणौ ।
जाम्बवन्तं ददृशतुः किंचिदालक्ष्यजीवितम् ॥ ९७४ ।।
शरतल्पगतं वृद्धं मर्मच्छेदव्यथातुरम् ।
तं सुप्तकरणग्रामं धीमानूचे विभीषणः ।। ९७५ ।।
कच्चिदार्य तव प्राणास्तिष्ठन्ति दलिताकृतेः ।
विलुप्तविभवस्यान्ते सुहृदः सज्जना इव ॥ ९७६ ॥


१. मेघनादेन वर्पिणा' शा०, २. 'हय मानो' स्यात्.