पृष्ठम्:रामायणमञ्जरी.pdf/३८

पुटमेतत् सुपुष्टितम्
२९
रामायणमञ्जरी।

स कदाचिदयं श्रीमान्सैन्येन महता वृतः ।
विचरन्काननान्तेषु वशिष्ठाश्रममाययौ ॥ ३४१ ॥
पूज्येन पूजितस्तेन प्रणयाच्च निमन्त्रितः ।
कृच्छ्रादिव तथेत्यूचे कौशिकः प्रीतियन्त्रितः ॥ ३४२ ॥
विशिष्ठोऽपि समभ्येत्य कामधेनुमभाषत ।
ससैन्योऽद्य मया राजा विश्वामित्रो निमन्त्रितः ॥ ३४३ ॥
तस्मै प्रयच्छ विविधां भोज्यरत्नांशुकश्रियम् ।
इत्युक्ता बहुला तेन ददौ सर्व तदर्थितम् ॥ ३४४ ॥
अथ राजोचितैर्भोगैस्तृप्तः सबलवाहनः ।
रत्नैश्च विविधैः प्रीतः क्ष्मापतिर्विसयं ययौ ॥ ३४५ ॥
स ज्ञात्वा शबलां धेनुं कारणं सर्वसंपदाम् ।
उवाच प्रीतिमासाद्य वशिष्ठं तपसां निधिम् ।। ३४६ ॥
कामधेनुः परं रत्नं रत्नानां भाजनं नृपः ।
गवां शतसहस्रेण तस्मादेतां प्रयच्छ मे ॥ ३४७ ।।
तमुवाच वशिष्ठोऽपि नाहं कोटिशतैर्गवाम् ।
राशिभिर्वा सुवर्णस्य दास्यामि शबलां क्वचित् ॥ ३४८ ॥
संत्यक्तुं नोत्सहे पुण्यां तपःसिद्धिमिवोत्तमाम् ।
हव्यकव्याग्निहोत्राणां प्राणानां च समाश्रयम् ॥ ३४९ ॥
मत्वैतत्कौशिकोऽवादीद्वजानां हेमशालिनाम् ।
हयानां चेन्दुशुभ्राणां चायुतैः कोटिभिर्गवाम् ॥ ३९० ॥
देहि मे शबलां ब्रह्मन्निर्बन्धोऽनुशयप्रदः ।
इत्युक्तो भूमिपालेन वशिष्ठः पुनरभ्यधात् ॥ ३५१ ॥
राजञ्जीवितसर्वस्वं शबलां न ददामि ते ।
सैव मे परमं रत्नं सैव यज्ञक्रियाफलम् ॥ ३५२ ॥
इति ब्रुवाणो न यदा कामधेनुं ददौ मुनिः ।
तदा जहार बलवान्बलात्कुशिकनन्दनः ॥ ३५३ ।।


१. ग-पुस्तके त्रुटितः. २. 'बहुधा' ग.