पृष्ठम्:रामायणमञ्जरी.pdf/३९

पुटमेतत् सुपुष्टितम्
३०
काव्यमाला ।


ह्रियमाणा वने धेनुर्भूपालेन बलीयसा ।
दुःखिता साश्रुनयना शरणं मुनिमाययौ ।। ३५४ ।।
सावदद्भगवन्कस्सादकस्मादनपायिनी।
निर्दोषाहं त्वया त्यक्ता हव्यकव्योपयोगिनी ॥ ३५५ ॥
एतच्छ्रुत्वा मुनिवरस्तामुवाच कृपानिधिः ।
न मया त्यज्यसे देवि ह्रियसे प्रसभं मम ॥ ३५६ ॥
बलवान्कौशिको राजा दुर्बला ब्राह्मणा वयम् ।
पश्यामि वाहिनीं शस्त्रवीचीवलयसंकुलाम् ॥ ३५७ ॥
दुःखादिति ब्रुवाणं तं शवला प्रत्यभाषत ।
क्षात्रं बलं नातिबलं ब्रह्मतेजो महद्बलम् ॥ ३५८ ॥
शौर्याधिकः क्षत्रियोऽयं तपस्तेजश्च तेऽधिकम् ।
त्वदनुप्राणितबलं पश्य मामधुना विभो ।। ३५९ ॥
इत्युक्त्वा ससृजे वीरान्हुंकारेणैव पल्हवान् ।
तान्युद्धे क्षपितान्दृष्ट्वा विश्वामित्रस्य सैनिकैः ॥ ३६० ॥
योनिजान्यवनान्म्लेच्छाञ्छकृतश्चासृजच्छकान् ।
काम्बोजान्दरदाञ्छूरान्बाह्लिकान्सकिरातकान् ॥ ३६१ ॥
तुरुष्कान्सासृजद्वीरान्धोरान्हेमाचलत्विषः ।
ज्वलितानिव दिव्यास्त्रैर्विश्वामित्राभिमन्त्रितैः ॥ ३६२ ॥
(तिलकम्)
तैर्म्लेच्छैर्विकृताकारैः प्रदीप्तविविधायुधैः ।
क्षणेनाभूत्क्षतिपतिर्निहताशेषसैनिकः ॥ ३६३ ।।
ततः शतं नरपतेः पुत्राणां भुजशालिनाम् ।
अभ्याद्रवत्सुसंरब्धं वशिष्ठं तेजसां निधिम् ॥ ३६४ ॥
तानाकृष्टमहाचापखड्गानापतिताञ्जवात् ।
दृष्ट्वा वशिष्ठो विदधे हुंकारेणैव भस्मसात् ॥ ३६५ ॥


१. 'ण तदा बहून्' ग. २. 'तुखरा' ग.