पृष्ठम्:रामायणमञ्जरी.pdf/४०

पुटमेतत् सुपुष्टितम्
३१
रामायणमञ्जरी।

हतपुत्रो हतामात्यः सैन्यहीनो महीपतिः ।
सोऽभून्निरुद्धकच्छायो दावदग्ध इवाचलः ॥ ३६६ ॥
प्राज्यं राज्यं परित्यज्य स गत्वा हिमवत्तटम् ।
मौनी तपश्चचारोग्रं पादाङ्गुष्ठधृतिश्विरम् ॥ ३६७ ।।
तस्य वातभुजः काले स्वयमेत्य चतुर्मुखः ।
अर्थितः प्रददौ दिव्यमस्त्रग्रामं वरप्रदः ॥ ३६८ ॥
दिव्यास्त्रबलसंपूर्णः स गत्वा पुनराश्रमम् ।
वशिष्ठस्याकरोत्सर्वत्रस्तशिष्यजनोज्झितम् ॥ ३६९ ।।
ब्रह्मदण्डमथादाय कालदण्डमिवोत्कटम् ।
ददाह दिव्यान्यस्त्राणि वशिष्ठस्तस्य संगरे ॥ ३७० ॥
ततः प्रक्षीणसर्वास्त्रो ब्राह्ममस्त्रमथासृजत् ।
तदपि ब्रह्मदण्डेन ब्रह्मर्षिरफलं व्यधात् ॥ ३७१ ॥
तस्य ब्रह्मास्त्रसंहारकारिणो भैरवं वपुः ।
न सेहिरे सुरा द्रष्टुं रोमकूपोद्गतानलम् ॥ ३७२ ॥
भग्नदर्पस्ततो राजा विश्वामित्रोऽतिदुःखितः ।
धिक्क्षान्त्रं बलमित्युक्त्वा प्रययौ तपसे पुनः ॥ ३७३ ।।
स भार्यासहितश्चके दक्षिणां दिशमाश्रितः ।
तपस्तीव्रं ययुर्येन विस्मयं परमर्षयः ।। ३७४ ।।
हविष्यन्दो महिष्यन्दो दृढनेत्री महोदयः ।
पुत्रास्तपोवने यस्य जाताः पावकवर्चसः ।। ३७५ ।।
पूर्वजा हतशेषाश्च तस्याष्टौ बलवत्तराः ।
बभूवुर्भुवि विख्यातास्तनया राज्यभागिनः ।। ३७६ ।।
पूणे वर्षसहस्रेऽथ तपःसंतापितामरम् ।
ब्राह्मण्यकामं राजर्षि तं ब्रह्मा स्वयमाययौ ॥ ३७७ ॥
सोऽवदत्तपसा लोकास्त्वया राजर्षिसंमताः ।
जिताः संयमिना लब्धं सुकृतं जन्मनः फलम् ॥ ३७८ ।।


१. 'स पुत्रमेकं राज्याय पालयेति नियुज्य च' रामायणे. २. 'वृषध्वजः' रामायणे.