पृष्ठम्:रामायणमञ्जरी.pdf/४०१

पुटमेतत् सुपुष्टितम्
३९२
काव्यमाला।


मुरैरवध्यं समरे हतं श्रुत्वा दशाननम् ।
तं देशमाययुस्तूर्णं रावणान्तःपुराङ्गनाः ॥ १॥
ताश्छिन्नहारकेयूरधम्मिल्लकुसुमस्रजः ।
लङ्केश्वरं निपतितं ददृशुर्वल्लभं भुवि ॥ २ ॥
गतासुं गाढमालिङ्गय तं कुरङ्गविलोचनाः ।
सृजन्त्यो बाप्पसलिलं शुशुचुः शोकविहलाः ॥ ३ ॥
कथं सुरासुरपुरप्रोद्गीतगुरुविक्रमः ।
त्रिविक्रमविजेता त्वं मानुषेण रणे हतः ॥ ४ ॥
विवशास्त्रिदशा येन कृताः प्रथितपौरुषाः ।
स त्वमद्य कथं नाम शेपे निःशेपितः परैः ॥ ५ ॥
एते ते शेरते राजन्कैलासोल्लासलाञ्छनाः ।
भुजाः स्तम्भनिभा भूमौ मन्त्रान्ता भुजगा इव ॥ ६ ॥
विकीर्णहारं वक्षस्ते रुधिरोद्वान्तु चन्दनम् ।
ललनाकेलिशयनं पांशुदिग्धं न शोभते ॥ ७ ॥
आकृष्टशिष्टाचारेण निप्पिष्टगुणसंपदा ।
अत्र सीतापहारेण कृतान्तेनासि मोहितः ॥ ८॥
शिखेवाग्नेः पतङ्गेन रूपलुब्धेन जानकी ।
मृत्युरात्मविनाशाय स्वयमालिङ्गितस्त्वया ॥ ९ ॥
प्रत्यासन्नविनाशेन श्रुतं तद्विस्मृतं श्रुतम् ।
स्थलीकृतोऽन्वुधिर्येन कुम्भकर्णश्च पातितः ।
स मर्त्य इति किं मिथ्या काकुत्स्थश्चिन्तितस्त्वया ॥ १० ॥
अपाकृतं च बन्धूनां वचनं हितवादिनाम् ।
मुखं रजःपुटेनेव किं हिया विनिगूहसे ॥ ११ ॥
सोताहृतेरसि हृतः किमस्माभिः कृतं तव ।
देहि प्रतिवचो नाम न प्रियां त्यक्तुमर्हसि ॥ १२ ॥


१.'मन्त्रात्ता'शा.