पृष्ठम्:रामायणमञ्जरी.pdf/४०६

पुटमेतत् सुपुष्टितम्
३९७
रामायणमञ्जरी।


तां रत्नशिबिकारूढां पुरस्कृत्य विभीषणः ।
वृद्धामात्यैः परिवृतः काकुत्स्थं समुपाययौ ।। ६४ ॥
आगतां जानकी दृष्ट्वा वानराः कौतुकाकुलाः ।
उन्मुखा विपुलं वर्त्म निःसंचारं प्रचक्रमुः ॥ ६५ ॥
किं नु वक्ष्यति वैदेही रामः किं प्रतिवक्ष्यति ।
कान्तिर्वा कीदृशी तस्या यदर्थ रावणो हतः ।। ६६ ।।
समागमो वा दम्पत्योः कीदृशोऽयं भविष्यत्ति ।
इत्यनेकविकल्पोऽभूज्जल्पस्तेषामनल्पकः ॥ ६७ ॥
ततो विभीषणोऽभ्येत्य राममूचे कृताञ्जलिः ।
निरस्य वेत्रिप्रवरैर्जनं दर्शनसंगतम् ॥ ६८ ॥
जयश्रीरिव ते मूर्ता जानकी विक्रमार्जिता।
इयमग्रे स्थिता देव कौमुदीवामृतत्विपः || ६९ ॥
इत्युक्तं राक्षसेन्द्रेण श्रुत्वा रघुपतिः क्षणम् ।
प्रमोदक्रोधदैन्यानां तुल्यं प्राप विधेयताम् ॥ ७० ॥
सोऽवदत्किमयं मिथ्या जनः प्रोत्सार्यते पुरः ।
युद्धे ममैते स्वजनाः कथं नु परतां गताः ।। ७१ ।।
यत्कृतो विस्मयो मूर्त इव सेतुमहोदधौ ।
वत सा कीदृशी सीतेत्येषामेवास्ति संशयः ।। ७२ ।।
पुत्रपक्षे प्रजा राजस्तस्मात्पश्यन्तु जानकीम् ।
व्यसनोत्सवयुद्धेषु नादृश्या राजयोपितः ।। ७३ ॥
नान्तःपुरैर्न वासोभिर्न जनोत्सारणैः पुरः ।
भवन्ति पूजिता नार्यः शीलं तासां समुन्नतिः ।। ७४ ॥
विद्येवात्मविवेकन सत्येनेव सरस्वती।
प्रज्ञेव धर्ममार्गेण नारी शीलेन पूज्यते ।। ७५ ॥
इत्युक्ते रघुनाथेन प्लवङ्गाः सह राक्षसैः ।
सीतां समुपसर्पन्ती दहशुर्विन्सयाकुलाः ॥ ७६ ॥