पृष्ठम्:रामायणमञ्जरी.pdf/४१

पुटमेतत् सुपुष्टितम्
३२
काव्यमाला।

इत्युक्त्वान्तर्हिते क्षिप्रं पद्मयोनौ मुनिः शुचा ।
प्रदध्यौ मन्युसंतप्तः श्वसन्नाग इवाहतः ।। ३७९ ॥
अहो नु नाप्तं ब्राह्मण्यं यत्नेनापि महीयसा ।
तपो निष्फलतां यातं खलानामिव संगतम् ॥ ३८० ॥
इत्युक्त्वा पुनरेवोग्रं स चकार महत्तपः ।
निजधैर्यदृढश्चित्ते निश्चयो हि महात्मनाम् ॥ ३८१ ॥
असिन्नवसरे सत्यसुधाधौताननद्युतिः ।
त्रिशङ्कुर्भूमिपालोऽभूदिक्ष्वाकुकुलभूषणम् ॥ ३८२ ॥
सशरीरो दिवं गन्तुं यियक्षुः स्वपुरोहितम् ।
वशिष्ठमाहूय परं यत्नवानभवत्क्रतौ ॥ ३८३ ॥
प्रत्याख्यातो वशिष्ठेन तस्याशक्यतया क्रतोः ।
वशिष्ठपुत्रानभ्येत्य चक्रे यज्ञे कृतार्थताम् ॥ ३८४ ॥
कृताञ्जलिरुवाचेदं विपदां विनिवृत्तये ।
गुरुणा चरणानम्रः संत्यक्तोऽहमकल्मषः ॥ ३८९ ॥
गुरुणा प्रतिषिद्धोऽहं युष्माञ्छरणमागतः ।
भवद्भिर्यष्टुमिच्छामि गन्तुं विग्रहवान्दिवम्] ॥ ३८६ ॥
[उदेति मृत्युः पीयूषाकिमन्यद्विधुरे विधौ ।
सुहृदः शत्रुतां यान्ति संश्रितश्चाविधेयताम् ॥ ३८७ ॥
आराधिताश्च कुप्यन्ति दैवोद्धूलितसंपदाम् ।
शरण्यं शरणं यातस्त्वामहं वाञ्छिताप्तये ॥ ३८८ ॥
पापं मार्ष्टि शुभं सूते सत्यं साधुसमागमः ।
गुरुणा प्रतिषिद्धोऽहं युष्माञ्छरणमागतः ॥ ३८९ ॥


१. पश्चाल्लिखितो ग-पुस्तके. २. कोष्टकान्तर्गतपाठस्य 'कुशलायोद्यतो राजा यातः

प्रत्युत शोच्यताम्' इत्यतः प्राग्योजने तु न काप्यनुपपत्तिः. ३. कोष्टकमध्यस्थपाठस्य 'इत्युक्तः कौशिकोऽवादीत्करुणापूर्णमानसः' इत्यतः प्राक्समन्वयो युक्तः प्रतिभाति.