पृष्ठम्:रामायणमञ्जरी.pdf/४२

पुटमेतत् सुपुष्टितम्
३३
रामायणमञ्जरी।

भवद्भिर्यष्टुमिच्छामि गन्तुं विग्रहवान्दिवम् ।
युष्माभिरपि संत्यक्तो गमिष्यामि परं गुरुम् ॥ ३९० ॥
शतं वशिष्ठपुत्राणां श्रुत्वेति नृपमब्रवीत् ।
अशक्यत्वात्परित्यक्तो गुरुणा सत्यवादिना ।
परान्व्रजसि दुर्वृत्त चण्डालो भव सत्वरम् ।। ३९१ ॥
वशिष्ठपुत्ररित्युक्तो गत्वा निजपुरीं नृपः ।
अतिबाह्य निशामेकां प्रातश्चण्डालतां ययौ ।। ३९२ ॥
अघो नीलाम्बरो रक्तवासाः कल्मषभूषणः ।
खलैरिवासिकठिनैरायासैः परिवेष्टितः ॥ ३९३ ॥
तं विलोक्य श्रिया त्यक्तं घोरं निजकुलच्युतम् ।
तत्यजुर्मन्त्रिणः सर्वे पौराश्च व्याकुलाशयम् ॥ ३९४ ॥
अहो नु न चलत्येषा पुरुषप्रतिपन्थिनी ।
अनित्यतेव भावानां भूतानां भवितव्यता ॥ ३९५ ॥
अनित्या कर्मरेखेव भूतानां परिवर्तिनी ।
अहो चटुलकल्लोलकुल्या कुटिलचारिणी ॥ ३९६ ॥
नॄणामुन्मूलयत्येषा पौरुषं कर्मसंगतिः ।
कुशलायोद्यतो राजा यातः प्रत्युत शोच्यताम् ॥ ३९७ ॥
केवलं शरणं प्रायाद्विश्वामित्रं तपोनिधिम् ।
निवेद्य सर्ववृत्तान्तं तस्मै कारुण्यशालिने ॥ ३९८ ।।
इत्युक्त्वा कौशिकोऽवादीत्करुणापूर्णमानसः ।
एषोऽहं तव साहाय्ये सज्जः क्रतुसमीहिते ॥ ३९९ ॥
अनेनैव शरीरेण सुरलोकं प्रयास्यसि ।
इत्युक्त्वा यज्ञसंभारे मुनिः शिष्यानचोदयत् ॥ ४०० ॥
सोऽभवद्याजकस्तस्य वन्द्यो निन्द्यतनोर्नृपः ।
आपन्नत्राणचतुरं चरितं हि महात्मनाम् ॥ ४०१ ॥
ततः सर्वं मुनिकुलं निमन्त्रयितुमादरात् ।


१. 'इत्युक्तः' स्यात.

२. ' र्मुनिः.' ग. .