पृष्ठम्:रामायणमञ्जरी.pdf/४२२

पुटमेतत् सुपुष्टितम्
४१३
रामायणमञ्जरी।


स दैत्यदहनो विष्णुः प्रभविष्णुर्वधे द्विपाम् ।
संधेयः सर्वथास्माकं स्पृहा यद्यस्ति जीविते ॥ ६८ ॥
योद्भुमिच्छन्ति ते मूढा हरिणा हरिणा इव ।
दूरात्साचीकृताक्षेण ये कृतान्तेन रक्षिताः ॥ ६९ ॥
अनागतं बलं वेत्ति यः संचिन्त्य बलावलम् ।
अप्रमादोपगूढस्य यस्यैता निर्भया दिशः ।। ७० ।।
दूरारूढप्रभावेषु न कुर्यादुद्धतं शिरः ।
उत्पतन्निपतत्येव सिंहो मेघजिगीपया ।। ७१ ॥
इति माल्यवतो वाक्यं श्रुत्वा श्रीरक्षणक्षमम् ।
सुमालिमालिनौ वीरौ सभ्रूभङ्गं तमूचतुः ।। ७२ ॥
हुतं दत्तं च भुक्तं च जिताश्च यदि विद्विषः ।
किमन्यत्कृतकृत्यानामस्साकमवशिष्यते ॥ ७३ ॥
निधनं धातुरायत्तं जयो भुजयुगानुगः ।
चित्तोचितानि वित्तानि भाग्ययुक्तानि देहिनाम् ।। ७४ ॥
लोभोऽभिमाने न धने तृष्णा यशसि नायुपि ।
एतावदेव महतां वीरव्रतमखण्डितम् ॥ ७५ ।।
मानमूलस्य यशसः परिरक्षेव जीवनम् ।
कृतान्तेन कृता कस्य मुहूत हस्तधारणा ॥ ७६ ॥
हरिश्चक्रं गदा वास्तु वस्तु तन्न नवं युधि ।
परीक्षा क्रियतां तस्य उभयोविक्रमेन च ॥ ७७ ॥
वराहकेसरिच्छन्नप्रकारैनिनता रिपून् ।
तेनात्मानः प्रकटिता पृष्टयुद्धेष्वशक्तता ॥ ७८ ॥
व्याजध्वजे बलिजये त्रैलोक्याक्रान्तिकारिणा ।
अपवादः खहस्तेन लिखितस्तेन शाश्वतः ।। ७९ ।।
इत्युक्त्वाग्रजमव्यत्रौ सैन्येन महता वृतौ ।


१. 'ल' शा.. २. 'त' शा०. ३. 'स्वायत्तानि' दा. धैर्येण च महावलौ । सैन्येन सहितौ युद्धं, जग्मतुस्तौ मुरालयम् ॥' सा. ४. 'ता:सुटा' मा. ५.