पृष्ठम्:रामायणमञ्जरी.pdf/४२४

पुटमेतत् सुपुष्टितम्
४२५
रामायणमञ्जरी।


चक्रप्रान्तानलब्बालाकपिलीकृतदितटम् ।
ततश्चक्रं ससर्जास्सै कुपितः कैटभान्तकः ।। ९३ ॥
भ्रूकुटीकुटिलं तेन कृतमुद्यतकुण्डलम् ।
निपपात शिरः स्फारवलिनो हेममालिनः || ९४ ॥
इति मालिवधः ॥२॥
पतितं राक्षसा वीक्ष्य मालिनं भुजशालिनम् ।
दुद्रुवुः पांशुनिचयाः पवनप्रेरिता इव ॥ ९५ ॥
पृष्ठतो वध्यमानास्ते गदाचक्रासिसायकैः ।
छिन्नस्कन्दोदरग्रीवा निपेतुर्लवणाम्भसि ॥ ९६ ॥
स्वसैन्यं क्षीणमालोक्य क्रोधात्मा तोषमाल्यवान् ।
उवाच शरनिर्मिन्नः परावृत्यासुरान्तकम् ॥ ९७ ॥
अहो नु वीरमर्यादां न जानी जनार्दन ।
विशृङ्खलः खल इव प्रहेष्वतिप्रगल्भसे ।। ९८ ।।
त्रस्तैः किमेतैनिहतैर्मयि दर्शय पौरुषम् ।
याते वात्र हरो वायुगिरिमासाद्य पङ्कताम् ॥ ९९ ॥
इति माल्यवतः श्रुत्वा वचः प्रोवाच केशवः ।
वध्या ममैते सर्वत्र त्रैलोक्यभयकारिणः ॥ १० ॥
गुणेष्वेव गुणा योज्या दोषा दोषेषु संगताः ।
अमर्यादेपु मर्यादा क्रियमाणा न शोभते ॥ १०१ ॥
इति ब्रुवाणं गोविन्दं शक्त्या विद्युत्मदीप्तया ।
जघानोरसि वेगेन माल्यवान्क्रोधमूर्छितः ।। १०२ ।।
मग्नां नारायणः शक्तिं तासुद्धृत्य स्खवक्षसः ।
चिक्षेप राक्षसायैव चिन्तामिव दिवौकसाम् ॥ १०३ ॥
मूर्छाविनष्टसंज्ञोऽथ निर्भिन्नहृदयस्तथा ।
चिरेण जीवितं प्राप्य राक्षसः शूलमादधे ॥ १०४ ॥


१. 'प्राप्तवार्ता' शा०. २. 'पु' शा०. ३. 'ततः सुधाकुलो रक्षः शति चिक्षेप विजये। क्षणमात्रं ममो हासो हदये तारितो यया ॥ इति दा० पुस्तके सधिको लिक्षितः,